________________
२.१६]
द्वितीयोन्मेषः अत्र सदाचारप्रवणतया गुरुभक्तिभावितान्तःकरणो लोकोत्तरौदार्यगणयोगाद्विविधविषयोपभोगवितृष्णमना निजेन्द्रियनिग्रहमसंभावनीयमपि शान्तनवो विहितवानित्यभिधातुं शक्यमपि सामान्याभिधायिना सर्वनाम्नाच्छाद्योत्तरार्धन कार्यान्तराभिधायिना वाक्यान्तरेण प्रतीतिगोचरतामानीयमानं कामपि चमत्कारकारितामावहति ।
अयमपर: प्रकारो यत्र स्वपरिस्पन्दकाष्ठाधिरूढेः सातिशयं वस्तु वचसामगोचर इति प्रथयितुं सर्वनाम्ना समाच्छाद्य तत्कार्याभिधायिना तदतिशयवाचिना वाक्यान्तरेण समुन्मील्यते । यथा
याते द्वारवती तदा मधुरिपौ तद्दत्तकम्पानता कालिन्दीजलकेलिवजुललतामालम्व्य सोत्कण्ठया। तद् गीतं गुरुबाष्पगद्गदलसत्ता रस्वरं राधया
येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥ ५९॥ अत्र सर्वनाम्ना संवृतं वस्तु तत्कार्याभिधायिना वाक्यान्तरेण समुन्मील्य सहृदयहृदयहारितां प्रापितम् । यथा वा
तह रुण्णं कण्ह विसाहीआए रोहगग्गरगिराए । जह कस्स वि जम्मसए वि कोइ मा वल्लहो होउ ।। ६० । तथा रुदितं कृष्ण विशाखया रोधगद्गदगिरा। यथा कस्यापि जन्मशतेऽपि कोऽपि मा वल्लभो भवतु ।।
इति छाया । अत्र पूर्वाः संवृतं वस्तु रोदनलक्षणं तदतिशयाभिधायिना वाक्यान्तरेण कामपि तद्विदाह्लादकारितां नीतम् ।
इदमपरमत्र प्रकारान्तरं यत्र सातिशयसुकुमारं वस्तु कार्यातिशयाभिधानं विना संवृतिमात्ररमणीयतया कामपि काष्ठामधिरोप्यते। यथा