________________
[२.१६
वक्रोक्तिजीवितम् करान्तरालीन इति ॥५६ ।। स्वमहिम्ना विधीयन्ते येन लोकोत्तर श्रियः ।
रसस्वभावालंकारास्तद्विधेयं विशेषणम् ।। ५७ ।। [इति ] अन्तरश्लोकः ॥
एवं विशेषणवक्रतां विचार्य क्रमसमर्पितावसरां संवृतिवक्तां विचारयति
यत्र संवियते वस्तु वैचित्र्यस्य विवक्षया ।
सर्वनामादिभिः कश्चित् सोक्ता संवृतिवक्रता ॥१६॥ सोक्ता संवृतिवक्रता-या किलवं विधा सा संवृतिवक्रतेत्युक्ता कथिता। संवृत्या वक्रता संवृतिप्रधाना वेति समासः। यत्र यस्यां वस्तु पदार्थलक्षणं संवियते समाच्छाद्यते। केन हेतुना–वैचित्र्यस्य विवक्षया विचित्रभावस्याभिधानेच्छया, यया पदार्थों विचित्रभावं समासादयतीत्यर्थः। केन संवियते-सर्वनामादिभिः कैश्चित। सर्वस्य नाम सर्वनाम तदादिर्येषां ते तथोक्तास्तैः कैश्चिदपूर्वैर्वाचकैरित्यर्थः ।
अत्र बहवः प्रकारा: संभवन्ति । यत्र किमपि सातिशयं वस्तु वक्तुं शक्यमपि साक्षादभिधानादियत्तापरिच्छिन्नतया परिमितप्रायं मा प्रतिभासतामिति सामान्यवाचिना सर्वनाम्ना समाच्छाद्य तत्कार्याभिधायिना तदतिशयाभिधानपरेण वाक्यान्तरेण प्रतीतिगोचरतां नीयते । यथा
तत्पितर्यथ परिग्रहलिप्सौ स व्यधत्त करणीयमणीयः । पुष्पचापशिखरस्थकपोलो . मन्मथ: किमपि येन निदध्यौ ।। ५८ ।।