________________
२.१५]
द्वितीयोन्मेषः श्रमजलसेकजनितनव लिखितनखपददाहमर्छिता वल्लभरभसललितललितालकवलयचयानिहता। स्मररसविविधविहितसुरतक्रमपरिमलनत्रपालसा
जयति निशात्यये युवतिदृक् तनुमधुमदविशदपाटला॥५१॥ यथा वा
करान्तरालीनकपोलभित्तिबर्बाष्पोच्छलत्कूणितपत्रलेखा। श्रोत्रान्तरे पिण्डितचित्तवृत्तिः
शृणोति गीतध्वनिमत्र तन्वी ।। ५२ ।। यथा वा
शुचिशीतलचन्द्रिकाप्लुताश्चिरनि:शब्दमनोहरा दिशः । प्रशमस्य मनोभवस्य वा
हृदि कस्या प्यथ हेतुतां ययुः ।। ५३ । क्रियाविशेषणवक्रत्वं यथा
सस्मार वारणपतिर्विनिमीलिताक्ष:
स्वच्छाविहारवनवासमहोत्सवानाम् ।।५४ ।। अत्र सर्वत्रैव स्वभावमौन्दर्यसमुल्लासकत्वं विशेषणानाम् । अलंकारच्छायातिशयपरिपोषकत्वं विशेषणस्य यथा
अगिन: गोभानिरस्कारिणा ।।५।। एतदेव विरोपणवक्रत्वं नाम प्रस्तुतौचित्यानुसारि मकलम-काव्यजीवितत्वेन लभ्यते, यस्मादने व रसः परां परिपोपपदवीमवतार्यते । यथा