________________
२.१४]
द्वितीयोन्मेषः
वक्रताव्यवहारः, यथा गौर्वाहीक इति ।
इदमपरमुपचारवक्रतायाः स्वरूपम् - यन्मूला सरसोल्लेखा रूपकादिरलंकृतिः । या मूलं यस्याः सा तथोक्ता । रूपकमादिर्यस्याः सा तथोक्ता । का सा - अलंकृतिरलंकरणं रूपकप्रभृतिरलंकारविच्छित्तिरित्यर्थः । कीदृशी - सरसोत्लेखा । सरसः सास्वादः सचमत्कृतिरुल्लेखः समुन्मेषो यस्याः सा तथोक्ता । समानाधिकरणयोरत्र हेतुहेतुमद्भावः, यथा
८९
अतिगुरवो राजमाषा न भक्ष्या इति ॥ ४८ ॥
यन्मूला सती रूपकादिरलंकृतिः सरसोल्लेखा । तेन रूपकादेरलंकरणकलापस्य सकलस्यैवोपचारवक्रता जीवितमित्यर्थः ।
ननु च पूर्वस्मादुपचारवत्रताप्रकारादेतस्य को भेदः ? पूर्वस्मिन् स्वभावविप्रकर्षात् सामान्येन मनाङ्मात्रमेव साम्यं समाश्रित्य सातिशयत्वं प्रतिपादयितुं तद्धर्ममात्राध्यारोपः प्रवर्तते, एतस्मिन् पुनरदूरविप्रकृष्ट सादृश्य समुद्भवप्रत्यासत्तिसमुचितत्वादभेदोपचारनिबन्धनं तत्त्वमेवाध्यारोप्यते । यथा
सत्स्वेव कालश्रवणोत्पलेष सेनावनालीविषपल्लवेषु । गाम्भीर्यपातालफणीश्वरेषु
खड्गेषु को वा भवतां मुरारिः ॥ ४९ ॥
अत्र कालश्रवणोत्पलादिसादृश्यजनितप्रत्यासत्तिविहितमभेदोपचारनिबन्धनं तत्त्वमारोपितम् ।
'आदि' - ग्रहणादप्रस्तुतप्रशसाप्रकारस्य लक्षणस्योपचारवतैव जीवितत्वेन लक्ष्यते ।
तथा च किमपि पदार्थान्तरं प्राधान्येन प्रतीयमानतया चेतसि
कस्यचिदन्यापदेश