________________
[२.१४
८८
वक्रोक्तिजीवितम् - काञ्चिदपूर्वामुद्रिक्तवृत्तितां वक्तुं सातिशयपरिस्पन्दतामभिधातुम् । यथा
स्निग्धश्यामलकान्तिलिप्तवियतः ।। ४५ ।। अत्र यथा बुद्धिपूर्वकारिण: केचिच्चेतनवर्णच्छायातिशयोत्पादनेच्छया केनचिद्विद्यमानलेपनशक्तिना मर्तेन नीलादिना रञ्जनद्रव्यविशेषेण किंचिदेव लेपनीयं मूर्तिमद्वस्तु वस्त्रप्राय लिम्पन्ति, तद्वदेव तत्कारित्वसामान्यं मनाङमात्रेणापि विद्यमानं कामप्यद्रिक्तवृत्तितामभिधालुमुपचारात् स्निग्धश्यामलया कान्त्या लिप्तं वियद् द्यौरित्युपनिबद्धम् । “स्निग्ध'-शब्दोऽप्युपचारवक्र एव । यथा मूतं वस्तु स्पर्शसंवेद्यं स्नेह नगुणयोगात् स्निग्धमित्युच्यते, तथैव कान्तिरमूर्ताप्युपचारात् स्निग्धेत्युक्ता । यथा वा
गच्छन्तीनां रभणवसति योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः । सौदामिन्या कनकनिकषस्निग्धया दर्शयो:
तोयोत्सर्गस्तनितमुखरो मास्म भूविक्लवास्ता: ।। ४६ ।। अत्रामूर्तानामपि तमसामतिबाहुल्याद् घनत्वान्मूर्तसमुचितं सूचिभेद्यत्वमुपचरितम् । यथा वा ।
गअणं च मत्त मेहं धाराललिअज्जणाइं अ वणाई। णिरहंकारमिअका हरंति णीलाओ अ णिसाओ ।। ४७ ।। गगनं च मन्तमघं धारालुलितार्जुनानि च वनानि ।
निरहङ्कारमृगाङ्का हरन्ति नीलाश्च निगा: ।। इति छाया । अत्र मत्तत्वं निरहंकारत्वं च चेतनधर्मसामान्यमुपचरितम् । सोऽयमपचारवत्रताप्रकार: म कविप्रवाहे सहस्रशः संभवतीति सहृदय: स्वयमेवोत्प्रेक्षणीयः । अतएव च प्रत्यासन्नान्तरेऽस्मिन्नपचारे न