SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ८६ [२.१२ इति । अत्राभिधानप्रतीतिगोचरीकृतानां पदार्थानां परस्परप्रतियोगित्वमुदाहरणप्रत्युदाहरणन्यायेनानुसंधेयम् । अयमपर पर्यायप्रकार: पदपूर्वार्धवत्रतां विदधाति - अलंकारोपसंस्कारमनोहारिनिबन्धनः । अत्र 'अलंकारोपसंस्कार'शब्दे तृतीयासमास: पष्ठीसमासश्च करणीयः । तेनार्थद्वयमभिहितं भवति । अलंकारेण रूपकादिनोपसंस्कार : शोभान्तराधानं यत्तेन मनोहारि हृदयरञ्जकं निबन्धनमुपनिबन्धो यस्य स तथोक्तः । अलंकारस्योत्प्रेक्षा देरुपसंस्कार : गोभान्तराधानं चेति विगृह्य । तत्र तृतीयासमास पक्षोदाहरणं यथा यो लीलातालवन्तो रहसि निरुपधिर्यश्च केली प्रदीपः कोपक्रीडामु योऽस्त्रं दशनकृतरुजो योऽयं रस्यैकसेकः । आकल्पे दर्पणं यः श्रमशयनविधौ यश्च गण्डोपधानं देव्याः स व्यापदं वो हरतु हरजटा कन्दलीपुर पमिन्दुः ||४३|| अत्र तालवृन्तादिकार्यसामान्यादभेदोपचारनिबन्धनो रूपकालंकारविन्यास: सर्वेषामेव पर्यायाणां शोभातिशयकारित्वेनोपनिबद्ध: । षष्ठीसमासपक्षोदाहरणं यथा वक्रोक्तिजीवितम् देवि त्वन्मुखपङ्कजेन शशिनः गोभातिरस्कारिणा । पश्याजानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम् ॥४४॥ अत्र स्वरससंप्रवृत्तसायंसमयसमुचिता सरोरुहाणां विच्छायताप्रतिपत्तिर्नायकेन नागरकतया वल्लभोपलालनाप्रवृत्तेन तन्निदर्शनोपकमरमणीयत्वमखेन निर्जितानीवेति प्रतीयमानोत्प्रेक्षालंकारकारित्वेन प्रतिपाद्यते । एतदेव च युक्तियुक्तम् । यस्मात्सर्वस्य कस्यचित्पङ्कजस्य शशाङ्कगोभातिरस्कारकारिता प्रतिपद्यते । त्वन्म्खपङ्कजेन पुनः शशिनः शोभातिरस्कारिणा न्यायतो निर्जितानि सन्ति विच्छायतां गच्छन्तीवेति प्रतीयमानस्योत्प्रेक्षालक्षणस्या
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy