________________
२.१२]
यथा
द्वितीयोन्मेषः
अलं महीपाल तव श्रमेण प्रयुक्तमथ्यस्त्रमितो वृथा स्यात् । न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्छति मारुतस्य ॥ ४० ॥
अत्र महीपालेति राज्ञः सकलपृथ्वीपरिरक्षणक्षमपौरुषस्यापि तथाविधप्रयत्नपरिपालनीय गुरु गोरूप जीव मात्र परित्राणासामर्थ्य स्वप्नेstrसंभावनीयं यत्तत्पात्रत्वगर्भमामन्त्रणमुपनिबद्धम् । यथा वा
भूतानुकम्पा तव चेदियं गौरेका भवेत् स्वस्तिमती त्वदन्ते । जीवन् पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥ ४१ ॥
८५
अत्र यदि प्राणिकरुणाकारणं निजप्राणपरित्यागमाचरसि तदध्ययुक्तम् । यस्मात्त्वदन्ते स्वस्तिमती भवेदियमेकैव गौरिति त्रितयमप्यनादरास्पदम् । जीवन् पुनः शश्वत् सदैवोपप्लवेभ्योऽनर्थेभ्यः प्रजाः सकलभूतधात्रीवलयवर्तिनीः प्रजानाथ पासि रक्षसि पितेवेत्यनादरातिशयः प्रथते । तदेवं यद्यपि सुस्पष्टसमन्वयोऽयं वाक्यार्थस्तथापि तात्पर्यान्तरमत्र प्रतीयते । यस्मात् सर्वस्य कस्याचित्प्रजानाथत्वे सति सदैव तत्परिरक्षणस्याकरणमसंभाव्यम् तत्पात्रत्वगर्भमेव तदभिहितम् । यस्मात् प्रत्यक्षप्राणिमात्र भक्ष्यमाणगुरुहोमधेनुप्राणपरिरक्षणापेक्षानिरपेक्षस्य सतो जीवतस्तवानेन न्यायेन कदाचिदपि प्रजापरिरक्षणं मनागपि न संभाव्यत इति प्रमाणोपपन्नम् । तदिदमुक्तम्
प्रमाणवत्त्वादायातः प्रवाहः केन वार्यते ॥ ४२ ॥
1