SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ वक्रोक्तिजीवितम् [२.१२ प्रतीतिमत्पापयद् रूपकालंकारच्छायासंस्पर्शात् कामपि पर्यायवक्रतामुन्मीलयति । अयमपर: पर्यायप्रकार: पदपूर्वार्धवक्रताया: कारणम्---य: स्वच्छायोत्कर्षपेशल: । स्वस्यात्मनश्छाया कान्तिर्या सुकुमारता तदुत्कर्षेण तदतिशयेन य: पेशलो हृदयहारी । तदिदमत्र तात्पर्यम् – यद्यपि वर्ण्यमानस्य वस्तुनः प्रकारान्तरोल्लासकत्वेन व्यवस्थितिस्तथापि परिस्पन्दसौन्दर्यसंपदेव सहृदयहृदयहारितां प्रतिपद्यते। यथा इत्थमुत्कयति ताण्डवलीलापण्डिताब्धिलहरीगुरुपादैः । उत्थितं विषमकाण्डकुटुम्ब स्यांशुभि: स्मरवतीविरहो माम् ॥ ३९ ॥ अत्रेन्दुपर्यायो ‘विषमकाण्डकुटुम्ब'-शब्द: कविनोपनिबद्धः । यस्मान्मृगाङ्कोदयद्वेषिणा विरहविधरहृदयेन केनचिदेतदुच्यते । यदयमप्रसिद्धोऽप्यपरिम्लानसमन्वयतया प्रसिद्धतमतामुपनीतस्तेन प्रथमतरोल्लिखितत्वेन च चेतनचमत्कारकारितामवगाहते। एष च स्वच्छायोत्कर्षपेशल: सहजसौन्दर्यसु भगत्वेन नूतनोल्लेखविलक्षणत्वेन च कविभि: पर्यायान्तरपरिहारपूर्वकमपवर्ण्यते । यथा कृष्णकुटिलकेशीति वक्तव्ये यमुनाकल्लोलवकालकेति । यथा वा 'गौराङ्गीवदनोपमापरिचित' इत्यत्र वनितादिवाचकसहस्रसद्भावेऽपि गौराङ्गीत्यभिधानमतीवरमणीयम् । ___ अयमपर: पर्यायप्रकार: पदपूर्वार्धवक्रताभिधायी-असंभाव्यार्थपात्रत्वगर्भ यश्चाभिधीयते । वर्ण्यमानस्य संभाव्य: संभावयितुमशक्यो योऽर्थः कश्चित्परिस्पन्दस्तत्र पात्रत्वं भाजनत्वं गर्भोऽभिप्रायो यत्राभिधाने तत्तथाविधं कृत्वा यश्चाभिधीयते भण्यते ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy