SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ २.१२] द्वितीयोन्मेषः इत्यागतं झटिति योऽलिनमुन्ममाथ मातङ्ग एव किमत: परमुच्यतेऽसौ ॥३५ ।। अत्र ‘मातङ्ग'-शब्द: प्रस्तुते वारणमात्रे प्रवर्तते । श्लिष्टया वृत्त्या चण्डाललक्षणस्याप्रस्तुतस्य वस्तुन: प्रतीतिमुत्पादयन् रूपकालंकारच्छायासंस्पर्शाद् गौर्वाहीक इत्यनेन न्यायेन सादृश्यनिबन्धनस्योपचारस्य संभवात् प्रस्तुतस्य वस्तुनस्तत्त्वमध्यारोपयन् पर्यायवक्रतां पुष्णाति । यस्मादेवं विधे विषये प्रस्तुतस्याप्रस्तुतेन संबन्धोपनिबन्धो रूपकालंकारद्वारेण कदाचिदुपमामुखेन वा । यथा स एवायं स इवायमिति वा । एष एव च शब्दशक्तिमूलानुरणनरूपव्यङ्गयस्य पदध्वनेविषयः, बहुष चैवंविधेषु मत्सु · वाक्यध्वनेर्वा । यथा कुसुमसमययुगमुपसंहरन्नुत्फुल्लमल्लिकाधवलाट्टहासो व्यजम्भत ग्रीष्माभिधानो महाकालः ॥३६॥ यथा वृत्तेऽस्मिन् महाप्रलये धरणीधारणायाधुना त्वं शेष: इति ॥३७॥ अत्र युगादय: शब्दा: प्रस्तुताभिधानपरत्वेन प्रयुज्यमानाः सन्तोऽप्यप्रस्तुतवस्तुप्रतीतिकारितया कामपि काव्यच्छायां समुन्मीलयन्त: प्रतीयमानालंकारव्यपदेशभाजनं भवन्ति ॥ विशेषणेन यथा मुस्निग्धदुग्धधवलोरुदृशं विदग्धमालोक्य यन्मधुरमुग्ध विलासदिग्धम् । भस्मीचकार मदनं ननु काष्ठमेव तन्ननमीश इति वेत्ति पुरन्धिलोक: ।। ३८।। अत्र काष्ठमिति विशेषणपदं वर्ण्यमानपदार्थापेक्षया मन्मथस्य नीरसतां प्रतिपादयद् रम्यच्छायान्तरस्पशिश्लेषच्छायामनोज्ञविन्यासमपरमस्मिन् वस्तुन्यप्रस्तुते मदनाभिधानपादपलक्षणे
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy