SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ वक्रोक्तिजीवितम् [२.१२ संबन्धी रघुभूभुजां मनमिजव्यापारदीक्षागुरुगौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः । सद्योमाजितदाक्षिणात्यतरुणीदन्तावदातद्युति श्चन्द्र: सुन्दरि दृश्यतामयमसौ चण्डी शचूडामणि: ।। ३४ ।। अत्र पर्यायाः सहजसौन्दर्यसंपदुपेतस्यापि चन्द्रमस: सहृदयहृदयाह्लादकारणं कमप्यतिशयमुल्लासयन्तः पदपूर्वार्धवक्रतां पुष्णन्ति । तथा च रामेण रावणं निहत्य पुष्पकेन गच्छता सीतायाः सविसम्भं स्वैरकथास्वेतदभिधीयते यच्चन्द्रः मुन्दरि दृश्यतामिति, रामणीयकमनोहारिणि सकललोकलोचनोत्सवश्चन्द्रमा विचार्यतामिति । यस्मात्तथाविधानामेव तादृशः समुचितो विचारगोचरः । संबन्धी रघुभूभुजामित्यनेन चास्माकं नापूर्वो बन्धुरयमित्यवलोकनेन संमान्यतामिति प्रकारान्तरेणापि तद्विषयो बहुमान: प्रतीयते। शिष्टाश्च तदतिशयाधान प्रवणत्वमेवात्मनः प्रथयन्ति । तत एव च प्रस्तुतमर्थं प्रति प्रत्येक पृथक्त्वेनोत्कर्षप्रकटनात्पर्यायाणां बहूनामप्यपौनरुक्त्यम् । तृतीये पादे विशेषणवक्रता विद्यते, न पर्यायवक्रत्वम् । अयमपर: पर्यायप्रकार: पदपूर्वार्धवक्रतानिबन्धन:-यस्तदलं. कर्तुमीश्वरः। तदभिधेयलक्षणं वस्तु विभूषयितुं यः प्रभवतीत्यर्थः । कस्मात्-रम्यच्छायान्तरस्पर्शात् । रम्यं रमणीयं यच्छायान्तरं विच्छित्त्यन्तरं श्लिष्टत्वादि तस्य स्पर्शात्, गोभान्तरप्रतीतेरित्यर्थः । कथम्-स्वयं विशेषणेनापि । स्वयमात्मनैव, स्वविशेपणभूतेन पदान्तरेण वा । तत्र स्वयं यथा इत्थं जडे जगति को नु बृहत्प्रमाणकर्णः करी नन भवेद् ध्वनितस्य पात्रम् ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy