SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ २.१२] द्वितीयोन्मेषः नाभियोक्तु मनृतं त्वमिप्यसे कस्तपस्विविशिखेषु चादरः । सन्ति भूभूति हि नः शरा: परे ये पराक्रमवसूनि वज्रिण: ॥३२ ।। अत्र महेन्द्रवाचकेष्वसंख्येषु संभवत्सु पर्यायशब्देषु ‘वज्रिणः' इति प्रयुक्तः पर्यायवक्रतां पुष्णाति । यस्मात् सततसंनिहितवज्रस्यापि सुरपतेर्ये पराक्रमवसूनि विक्रमधनानीति सायकानां लोकोत्तरत्वप्रतीति: । 'तपस्वि'-शब्दोऽप्यतितरां रमणीयः। यस्मात् सुभटसायकानामादरो बहुमान: कदाचिदुपपद्यते, तापसमार्गणेषु पुनरकिंचित्करेषु क: संरम्भ इति । यथा वा कस्त्वं ज्ञास्यसि मां स्मर स्मरसि मां दिष्ट्या किमभ्यागतस्त्वामुन्मादयितुं कथं ननु बलात् किं ते बलं पश्य तत् । पश्यामीत्यभिधाय पावकमुचा यो लोचनेनैव तं कान्ताकण्ठनिषक्तबाहुमदहत्तस्मै नमः शूलिने ॥३३॥ अत्र परमेश्वरे पर्यायसहस्रष्वपि संभवत्सु 'शलिने' इति यत्प्रयुक्तं तत्रायमभिप्रायो यत्तस्मै भगवते नमस्कारव्यतिरेकेण किमन्यदभिधीयते । यत्तथाविधोत्सेकपरित्यक्तविनयवृत्तेः स्मरस्य कुपितेनापि तदभिमतावलोकव्यतिरेकेण तेन सततसंनिहितशलेनापि कोपसमुचितमायुधग्रहणं नाचरितम् । लोचनपातमात्रेणेव कोपकार्यकरणाद्भगवत: प्रभावातिशय: परिपोषित: । अतएव तस्मै नमोऽस्त्विति युक्तियुक्ततां प्रतिपद्यते । अयमपर: पदपूर्वार्धवक्रताहेतु: पर्याय:-यस्तस्यातिशयपोषक: । तस्याभिधेयस्यार्थस्यातिशयमुत्कर्ष पुष्णाति य: स तथोक्त: । यस्मात् सहजसौकुमार्यसुभगोऽपि पदार्थस्तेन परिपोषितातिशयः सुतरां सहृदयहृदयहारितां प्रतिपद्यते । यथा
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy