SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ८० वक्रोक्तिजीवितम् [२.१०-१२ ' रघु' -शब्देनात्र त्रिभुवनातिशाय्यौदा र्यातिरेकः प्रतीयते । एतस्यां वक्रतायामयमेव परमार्थो यत् सामान्यमात्रनिष्ठतामपाकृत्य कविविवक्षितविशेषप्रतिपादनसामर्थ्यलक्षणः शोभातिशयः समुल्लास्यते । संज्ञाशब्दानां नियतार्थनिष्ठत्वात् सामान्यविशेषभावो न कश्चित् संभवतीति न वक्तव्यम् । यस्मात्तेषामप्यवस्थासहस्रसाधारणवृत्तेर्वाच्यस्य नियतदशाविशेषवृत्तिनिष्ठता सत्कविविवक्षिता संभवत्येव, स्वरश्रुतिन्यायेन लग्नांशकन्यायेन चेति । 1 एवं रूढिवऋतां विवेच्य क्रमप्राप्तसमन्वयां पर्यायवत्रतां विविनक्ति अभिधेयान्तरतमस्तस्यातिशयपोषकः । रम्यच्छायान्तरस्पर्शात्तदलंकर्तुमीश्वरः ॥ १० ॥ स्वयं विशेषणेनापि स्वच्छायोत्कर्षपेशलः । असंभाव्यार्थपात्रत्वगर्भं यश्चाभिधीयते ॥। ११ ॥ अलंकारोपसंस्कारमनोहारिनिबन्धनः । पर्यायस्तेन वैचित्र्यं परा पर्यायवक्रता ।। १२ ॥ पूर्वोक्तविशेषणविशिष्ट: काव्यविषये पर्यायस्तेन हेतुना यचित्र्यं यो विचित्रभावो विच्छित्तिविशेषः सा परा प्रकृष्टा काचिदेव पर्यायवक्रतेत्युच्यते । पर्यायप्रधानः शब्दः पर्यायोऽभिधीयते । तस्य चैतदेव पर्यायप्राधान्यं यत् स कदाचिद्विवक्षिते वस्तुनि वाचकतया प्रवर्तते, कदाचिद्वाचकान्तरमिति । तेन पूर्वोक्तया नीत्या बहुप्रकार: पर्यायोऽभिहितः, तत् कियन्तस्तस्य प्रकारा: सन्तीत्याह-अभिधेयान्तरतमः । अभिधेयं वाच्यं वस्तु तस्यान्तरतमः प्रत्यासन्नतमः । यस्मात् पर्यायशब्दत्वे सत्यप्यन्तरङ्गत्वात् स यथा विवक्षितं वस्तु व्यनक्ति तथा नान्यः कश्चिदिति । यथा
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy