________________
२.६-७] द्वितीयोन्मेषः
७५ व्येति । तत एव च तस्यास्तन्निबन्धना: प्रवितता: प्रकारा: समुल्लसन्ति । चिरन्तन: पुन: सैव स्वातन्त्र्येण वृत्तिवैचित्र्ययुक्तेति प्रोक्ता । वृत्तीनामुपनागरिकादीनां यद् वैचित्र्यं विचित्रभाव: स्वनिष्ठसंख्याभेदभिन्नत्वं तेन युक्ता समन्वितेति चिरन्तन: पूर्वसूरिभिरभिहिता । तदिदमत्र तात्पर्यम् -- यदस्या: सकलगुण स्वरूपानुसरणसमन्वयेन सुकुमारादिमार्गानुवर्तनायत्तवृत्तेः पारतन्त्र्यमपरिगणितप्रकारत्वं चैतदुभयमप्यवश्यंभावि तस्मादपारतन्त्र्यं परिमितप्रकारत्वं चेति नातिचतुरस्त्रम् । ननु च प्रथममेको द्वावित्यादिना प्रकारेण परिमितान् प्रकारान स्वतन्त्रत्वं च स्वयमेव व्याख्याय किमेतदुक्तमिति चेन्नैष दोषः, यस्माल्लक्षणकारैर्यस्य कस्याचित्पदार्थस्य समुदायपरायत्तवृत्ते: परव्युत्पत्तये प्रथममपोद्धारबद्धया स्वतन्त्रतया स्वरूपमुल्लिख्यते, तत: समुदायान्तर्भावा भविष्यतीत्यलमतिप्रसङ्गेन ।
येयं वर्णविन्यासवक्रता नाम वाचकालंकृति: स्थाननियमाभावात् सकलवाक्यविषयत्वेन समाम्नाता, सैव प्रकारान्तरविशिष्टा नियतस्थानतयोपनिबध्यमाना किमपि वैचित्र्यान्तरमाबानातीत्याह
समानवर्णमन्यार्थ प्रसादि श्रुतिपेशलम् । औचित्ययुक्तमाद्यादिनियतस्थानशोभि यत् ॥६॥ यमकं नाम कोऽप्यस्याः प्रकारः परिदृश्यते ।
स तु शोभान्तराभावादिह नातिप्रतन्यते ॥७॥ कोऽप्यस्याः प्रकार: परिदृश्यत, अस्या: पूर्वोक्तायाः, कोऽप्यपूर्व: प्रभेदो विभाव्यते । कोसाविन्याह-यमकं नाम । यमकमिति यस्य प्रसिद्धिः । तच्च कीदशम-समानवर्णम् । समाना: मरूपा: सदाश्रयो वर्णा यस्मिन तत्तथोक्तम् । एवमेकस्य