SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ वक्रोक्तिजीवितम् [२.८ द्वयोर्बहूनां सदृशश्रुतीनां व्यवहितमव्यवहितं वा यदुपनिबन्धनं तदेव यमकमित्युच्यते । तदेवमेकरूपे संस्थानद्वये सत्यपिअन्यार्थं भिन्नाभिधेयम् । अन्यच्च कीदृशम्-प्रसादि प्रसादगुणयक्तं झगिति वाक्यार्थसमर्पकम, अकदर्थनाबोध्यमिति यावत् । श्रुतिपेशलमित्येतदेव विशिष्यते-- श्रुति: श्रवणेन्द्रियं तत्र पेशलं रञकम्, अकठोरशब्दविरचितम् । कीदृशम्-औचित्ययुक्तम् । औचित्यं वर्ण्यमानस्य वस्तुनः स्वभावोत्कर्षस्तेन संयुक्तं समन्वितम् । यत्र यमकोपनिबन्धनव्यसनित्वेनाप्यौचित्यमपरिम्लानमित्यर्थः। तदेव विशेषणान्तरेण विशिनष्टि-आद्यादिनियतस्थानशोभि यत् । आदिरादिर्येषां ते तथोक्ता: प्रथममध्यान्तास्तान्येव नियतानि स्थानानि विशिष्टा: संनिवेशास्त: शोभते भ्राजते यत्तथोक्तम् । अत्राद्यादय: संबन्धिशब्दा: पादादि भिविशेषणीया: । स तु प्रकार: प्रोक्तलक्षणसंपदुपेतोऽपि भवन् इह नातिप्रतन्यते ग्रन्थेऽस्मिन्नातिविस्तार्यते । कुत:-शोभान्तराभावात् । स्थाननियमव्यतिरिक्तस्यान्यस्य शोभान्तरस्य छायान्तरस्यासंभवादित्यर्थः । अस्य च वर्णविन्यासवैचित्र्यव्यतिरेकेणान्यत्किंचिदपि जीवितान्तर न परिदृश्यते । तेनानन्तरोक्तालंकृतिप्रकारतव युक्ता । उदाहरणान्यत्र शिशुपालवधे चतुर्थे सर्गे समर्पकाणि कानिचिदेव यमकानि, रघुवंशे वा वसन्तवर्णने । एवं पदावयवानां वर्णानां विन्यासवक्रभावे विचारिते वर्णसमदायात्मकस्य पदस्य च वक्रभावविचार: प्राप्तावसरः। तत्र पदपूर्वार्धस्य तावद्वक्रताप्रकारा: कियन्त: संभवन्तीति प्रक्रमते यत्र रूढरसंभाव्यधर्माध्यारोपगर्भता। सद्धर्मातिशयारोपगर्भत्वं वा प्रतीयते ॥८॥
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy