SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ द्वितीयोन्मेष: ७३ २.४] ७२ यथा च स्वस्थाः सन्तु वसन्त इति ॥१७॥ यथा वा तालताली इति ।। १८॥ सोऽयमभयप्रकारोऽपि वर्णविन्यासवक्रताविशिष्टावयवविन्यासो यमकाभास: संनिवेशविशेषो मुक्ताकलापमध्यप्रोतमणिमयपदकबन्धबन्धुरः सुतरां सहृदयहृदयहारितां प्रतिपद्यते। तदिदमुक्तम् अलंकारस्य कवयो यत्रालंकारणान्तरम । असन्तुष्टा निबध्नन्ति हारादेर्मणिबन्धवत् ॥१९॥ इति । एतामेव विविधप्रकारां वक्रतां विशिनष्टि, यदेवं विधवक्ष्यमाणविशेषणविशिष्टा विधातव्येति नातिनिर्बन्धविहिता नाप्यपेशलभूषिता । पूर्वावृत्तपरित्यागनूतनावर्तनोज्ज्वला ॥४॥ नातिनिर्बन्धविहिता–'निर्बन्ध'-शब्दोऽत्र व्यसनितायां वर्तते । तेनातिनिर्बन्धेन पुन: पुनरावर्तनव्यसनितया न विहिता, अप्रयत्नविरचितेत्यर्थः । व्यसनितया प्रयत्नविरचने हि प्रस्तुतौचित्यपरिहाणेर्वाच्यवाचकयो: परस्परस्पर्धित्वलक्षणसाहित्यविरहः पर्यवस्यति । यथा ___ भण तरुणि इति ॥२०॥ नाप्यपेशल भूषिता न चापेशले रसुकुमारैरक्षरैरलंकृता । यथा शीर्णघ्राणाघ्रि इति ॥२१॥ तदेवं कीदृशी तर्हि कर्तव्येत्याह–पूर्वावृत्तपरित्यागनूतनावर्तनोज्ज्वला पूर्वमावृत्तानां पुन: पुनर्विरचितानां परित्यागेन प्रहाणेन नतनानामभिनवानां वर्णानामावर्तनेन पुन: पुन: परिग्रहेण च
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy