________________
७२
वक्रोक्तिजीवितम्
[२.३ वामं कज्जलवद्विलोचनमुरो रोहद्विसारिस्तनम् ॥९॥
द्वयोर्यथा
ताम्बूलीनद्धमुग्धक्रमुकतरुलताप्रस्तरे सानुगाभिः पायं पायं कलाचीकृतकदलदलं नारिकेलीफलाम्भः । सेव्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि
त्यहव्यहकेलीकलितकुहकुहारावकान्ता वनान्ताः ॥१०॥ यथा वा
अयि पिबत चकोराः कृत्स्नमुन्न म्य कण्ठान् क्रमकवलनचञ्चच्चञ्चवश्चन्द्रिकाम्भः । विरहविधुरितानां जीवितत्राणहेतो
र्भवति हरिणलक्ष्मा येन तेजोदरिद्रः ॥११॥ बहूनां यथा
सरलतरलतालासिका इति ।। १२ ।। 'अपि'-शब्दात् क्वचिद् व्यवधानेऽपि। द्वयोर्यथा
स्वस्थाः सन्तु वसन्त ते रतिपतेरग्रेसरा वासरा: ।। १३॥ बहूनां व्यवधानेऽपि यथा
चकितचातकमेचकितवियति वर्षात्यये ॥१४॥ सा स्वराणामसारूप्यात् सेयमनन्तरोक्ता स्वरानामकारादीनामसारूप्यादसादृश्यात् क्वचित्कस्मिंश्चिदावर्तमानसमुदायैकदेशे परामन्यां वक्रतां कामपि पुष्णाति पुष्यतीत्यर्थः । यथा
राजीवजीवितेश्वरे ॥ १५ ॥ यथा वा
धूसरसरिति इति ।।१६।।