SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ द्वितीयोन्मेषः एतच्चकास्ति च रवेर्नवबन्धुजीवपुष्पच्छदाभमुदयाचलम्बिबिम्बम् || ३ || कदलीस्तम्बताम्बूलजम्बूजम्बीराः इति ॥ ४ ॥ यथा वा सरस्वती हृदयारविन्दमकरन्दबिन्दु सन्दोह सुन्दराणाम् इति ॥ ५ ॥ द्वितीयप्रकारोदाहरणम् – प्रथममरुणच्छायः ॥ ६ ॥ - इत्यस्य द्वितीयचतुर्थी पादौ । तृतीयप्रकारोदाहरणमस्यैव तृतीयः पादः । यथा वा २.३] यथा च ७१ सौन्दर्यधुर्यं स्मितम् ॥ ७ ॥ यथा च 'कलार' - शब्दसाहचर्येन 'ह्लाद ' - शब्दप्रयोगः । परुषरसप्रस्तावे तथाविधसंयोगोदाहरणं यथा उत्ताम्यत्तालवश्च प्रतपति तरणावांशवी तापतन्द्रीमद्रिद्रोणीकुटीरे कुहरिणि हरिणारातयो यापयन्ति ॥ ८ ॥ एतमेव वैचित्र्यान्तरेण व्याचष्टे क्वचिदव्यवधानेऽपि मनोहारिनिबन्धना । सा स्वराणामसारूप्यात् परां पुष्णाति वक्रताम् ॥ ३ ॥ क्वचिदनियतप्रायवाक्यैकदेशे कस्मिंश्चिदव्यवधानेऽपि व्यवधानाभावेऽयेकस्य द्वयोः समुदितयोश्च बहूनां वा पुनः पुनबंध्यमानानामेषां मनोहरिनिबन्धना हृदयावर्जकविन्यासा भवति । काचिदेवं संपद्यत इत्यर्थः । यमकव्यवहारोऽत्र न प्रवर्तते, तस्य नियतस्थानतया व्यवस्थानात् । स्वरैरव्यवधानमत्र न विवक्षितम्, तस्यानुपपत्तेः । तत्रैकस्याव्यवधानादाहरणं यथा -
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy