SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ '७० वक्रोक्तिजीवितम [२.२ भग्नैलावल्लरी कास्तरलितकदलीस्तम्बताम्बूलजम्बूजम्बीरास्तालतालीस रलतरलतालासिका यस्य जहः । वेल्लकल्लोलहेला विशकल नजडा: कूलकच्छेष सिन्धोः मेनासीमन्तिनीनामनवरतरताभ्यासतान्ति समीराः ॥ २ ॥ एतामेव वक्रतां विच्छित्त्यन्तरेण विविनक्ति--- वर्गान्तयोगिनः स्पर्शा द्विरुक्तास्त-ल- नादयः । शिष्टाश्च रादिसंयुक्ताः प्रस्तुतौचित्यशोभिनः ॥ २॥ इयमपरा वर्णविन्यास वक्रता त्रिधा त्रिभिः प्रकारैरुक्तेति 'च'शब्देनाभिसम्बन्धः । के पुनरस्यास्त्रयः प्रकारा इत्याह-वर्गान्तयोगिनः स्पर्शाः । स्पर्शाः कादयो मकारपर्यन्ता वर्गास्तदन्तैः ङकारादिभिर्योगः संयोगो येषां ते तथोक्ताः पुनः पुनर्बध्यमानाःप्रथमः प्रकारः । त-ल-नादयः तकार-लकार- नकार-प्रभृतयो द्विरुक्ता द्विरुच्चारता द्विगुणाः सन्तः पुनः पुनर्वध्यमाना:द्वितीयः । तद्व्यतिरिक्ताः शिष्टाश्च व्यञ्जनसंज्ञा ये वर्णास्ते रेफप्रभूतिभिः संयुक्ताः पुनः पुनर्बध्यमानाः - तृतीयः । स्वल्पान्तराः परिमितव्यवहिता इति सर्वेषामभिसंबन्धः । ते च कीदशा:प्रस्तुतौचित्यशोभिनः । प्रस्तुतं वर्ण्यमानं वस्तु तस्य यदौचित्यमुचितभावस्तेन शोभन्ते ये ते यथोक्ताः । न पुनर्वर्णसावर्ण्य - व्यसनितामात्रेणोपनिबद्धाः प्रस्तुतौचित्यम्लानत्वकारिणः । प्रस्तुतौचित्यशोभित्वात् कुत्रचित्परूपरसप्रस्तावे तादशानेवाभ्यनुजानाति । अथ प्रथमप्रकारोदाहरणं यथा उन्निद्रकोकनदरेणुपिशङ्गिताङ्गा गुञ्जन्ति मञ्जु मधुपाः कमलाकरेषु ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy