________________
द्वितीयोन्मेषः
___ सर्वत्रैव सामान्यलक्षणे विहिते विशेषलक्षणं विधातव्यमिति काव्यस्य “शब्दार्थों सहितौ' इत्यादि (१।७) सामान्यलक्षणं विधाय तदवयवभतयोः शब्दार्थयोः साहित्यस्य प्रथमोन्मेष एव विशेषलक्षणं विहितम् । इदानी प्रथमोद्दिष्टस्य वर्णविन्यासवक्रत्वस्य विशेषलक्षणमुपक्रमते
एको द्वौ बहवो वर्णा बध्यमानाः पुनः पुनः । स्वल्पान्तरास्त्रिधा सोक्ता वर्णविन्यासवक्रता ॥१॥ वर्णशब्दोऽत्र व्यञ्जनपर्यायः, तथा प्रसिद्धत्वात् । तेन सा वर्णविन्यासवक्रता व्यञ्जनविन्यसनविच्छित्ति: त्रिधा त्रिभिः प्रकारैरुक्ता वर्णिता । के पुनस्ते त्रय: प्रकारा इत्युच्यते-एक: केवल एव, कदाचिद् द्वौ बहवो वा वर्णाः पुनः पुनर्बध्यमाना योज्यमानाः। कीदशा:-स्वल्पान्तरा:। स्वल्पं सुतरामल्पं स्तोकमन्तरं व्यवधानं येषां ते तथोक्ताः । त एव त्रयः प्रकारा इत्यच्यन्ते । अत्र वीप्सया पुनः पुनरित्ययोगव्यवच्छेदपरत्वेन नियमः, नान्ययोगव्यवच्छेदपरत्वेन । तस्मात्पुनः पुनर्बध्यमाना एव, न तु पुन: पुनरेव बध्यमाना इति। तत्रैकव्यञ्जननिबन्धोदाहरणं यथा
धम्मिल्लो विनिवेशिताल्पकुसुम: सौन्दर्यधुर्यं स्मितं विन्यासो वचसां विदग्धमधुरः कण्ठे कलः पञ्चमः । लीलामन्थरतारके च नयने यातं विलासालसं
कोऽप्येवं हरिणीदृशः स्मरशरापातावदात: क्रमः ॥ १॥ एकस्य द्वयोर्बहूनां चोदाहरणं यथा