________________
वक्रोक्तिजीवितम्
[१.५८ च्चतस्यैव कवेः सहजसौकुमार्यमुद्रितसूक्तिपरिस्पन्दसौन्दर्यस्य पर्यालोच्यते, न पुनरन्येषामाहार्यमात्रकाव्यकरणकौशलश्लाघिनाम्। सौभाग्यमपि पदवाक्यप्रकरणप्रबन्धानां प्रत्येकमनेकाकारकमनीयकारणकलापकलितरामणीयकानां किमपि सहृदयहृदयसंवेद्यं काव्यकजीवितमलौकिकचमत्कारकारि संवलितानेकरसास्वादसुन्दरं सकलावयवव्यापकत्वेन काव्यस्य गुणान्तरं परिस्फुरतीत्यलमतिप्रसङ्गेन । इदानीमेतदुपसंहृत्यान्यदवतारयतिमार्गाणां त्रितयं तदेतदसकृत्प्राप्तव्यपर्युत्सुकैः क्षुण्णं कैरपि यत्र कामपि भुवं प्राप्य प्रसिद्धि गताः। सर्वे स्वरविहारहारि कवयो यास्यन्ति येनाधुना
तस्मिन् कोऽपि स साधुसुन्दरपदन्यासक्रमः कथ्यते ॥८॥ मार्गाणां सुकुमारादीनामेतत्तितयं कैरपि महाकविभिरेव, न सामान्यः, प्राप्तव्यपर्युत्सुकैः प्राप्योत्कण्ठितरसकृत् बहुवारमभ्यासेन क्षुण्णं परिगमितम् । यत्र यस्मिन् मार्गत्रये कामपि भुवं प्राप्य प्रसिद्धि गता: लोकोत्तरां भूमिमासाद्य प्रतीति प्राप्ता: । इदानी सर्वे कवयस्तस्मिन्मार्गत्रितये येन यास्यन्ति गमिष्यन्ति स्वरविहारहारि स्वेच्छाविहरणरमणीयं स कोऽपि अलौकिक: साधु शोभनं कृत्वा सुन्दरपदन्यासक्रम: कथ्यते सुभगसुप्तिङन्तसमर्पणपरिपाटीविन्यासो वर्ण्यते । मार्ग-स्वरविहार-पद-प्रभृतयः शब्दा: श्लेषच्छायाविशिष्टत्वेन व्याख्येयाः ।
इति श्रीराजानककुन्तकविरचिते वक्रोक्तिजीविते
काव्यालंकारे प्रथम उन्मेषः ।