________________
७८
१.५७]
प्रथमोन्मपः चित्यविरहादेकदेशदाहदूषितदग्धपटप्रायता प्रसज्यते । यथारघुवंशे एव दिलीप-सिंह-संवादावसरे
अथैकधेनोरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्विभेषि । शक्योऽस्य मन्युभवतापि नेतुं
गा: कोटिश: स्पर्शयता घटोनी: ॥१२३॥ इति सिंहस्याभिधातुमुचितमेव, राजोपहासपरत्वेनाभिधीयमानत्वात् । राज्ञ: पुनरस्य निजयश:परिरक्षणपरत्वेन तृणवल्लघुवृत्तयः प्राणा: प्रतिभासन्ते । तस्यैतत्पूर्वपक्षोत्तरत्वेन
कथं न शक्यानुनयो महर्षिविश्राणनादन्यपयस्विनीनाम् । इमामनूनां सुरभेरवेहि
रुद्रौजसा तु प्रहृतं त्वयास्याम् ॥१२४।। इत्यन्यासां गवां तत्प्रतिवस्तुप्रदानयोग्यता यदि कदाचित्संभवति ततस्तस्य मुनेर्मम चोभयोरप्येतज्जीवितपरिरक्षणनरपेक्ष्यमुपपन्नमिति तात्पर्यपर्यवसानादत्यन्तमनौचित्ययुक्तेयमुक्ति: । यथा च कुमारसंभवे त्रैलोक्याक्रान्तिप्रवणपराक्रमस्य तारकास्यस्य रिपोजिगीषावसरे सुरपतिर्मन्मथेनाभिधीयते
कामेकपत्नों व्रतदु:खशीलां लोलं मनश्चारुतया प्रविष्टाम् । नितम्बिनीमिच्छसि मुक्तलज्जां
कण्ठे स्वयंग्राहनिषक्तबाहुम् ॥१२५।। इत्यविनयानुष्ठाननिष्ठं त्रिविष्टपाधिपत्यप्रतिष्ठितस्यापि तथाविधाभिप्रायानुवर्तनपरत्वेनाभिधीयमानमनौचित्यमावहति । एत