________________
६४
वक्रोक्तिजीवितम्
[१.५४ ___ यत्र यस्मिन् वक्तुरभिधातुः प्रमातुरन भवितुर्वा स्वभावेन स्वपरिस्पन्देन वाच्यमभिधेयं वस्तु शोभातिशायिना रामणीयकमनोहरेण आच्छाद्यते संवियते तदप्यौचित्यमेवोच्यते । यथा ।
शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः ।
आरण्यकोपातफलप्रसूति: स्तम्बेन नीवार इवावशिष्टः ।।११८।। अत्र श्लाध्यतया तथाविधमहाराजपरिस्पन्दे वर्ण्यमाने मनिना स्वानुभवसिद्धव्यवहारानुसारेणालंकरणयोजनमौचित्यपरिपोषमावहति । अत्र वक्तुः स्वभावेन च वाच्यपरिस्पन्दः संवृतप्रायो लक्ष्यते । प्रमातुर्यथा।
निपीयमानस्तबका शिलीमुखग्शोकयष्टिश्चलबालपल्लवा । विडम्बयन्ती ददृशे वधूजन
रमन्ददप्टौष्ठकरावधूननम् ॥११९।। अत्र वधूजनैर्निजानुभववासनानुसारेण तथाविधशोभाभिरामतानभूतिरौचित्य मावहति । यथा वा
वापीतडे कुडुंगा पिअसहि ह्राउं गएहिं दीसंति । ण धरंति करेण भणंति ण त्ति वलिउं पुण ण देति ।।१२०॥ वापीतटे निकुञ्जा: स्नातुं गतैर्दश्यन्ते । न धरन्ति करेण भजन्ति न किमपि वलितुं पुनर्न ददति ।।
इति छाया। अत्र कस्याश्चित्प्रमातृभूताया: सातिशयमौग्ध्यपरिस्पन्दसुन्दरेण स्वभावेन वाच्यमाच्छादितमौचित्यपरिपोषमावहति ।
एवमौचित्यमभिधाय सौभाग्यमभिधत्ते