________________
१.५४]
प्रथमोन्मेषः
तदौचित्यं नाम गुणः । कीदृक-आञ्जसेन सुस्पष्टेन स्वभावस्य पदार्थस्य महत्त्वमुत्कर्षों येन पोष्यते परिपोषं प्राप्यते । प्रकारेणेति प्रस्तुतत्वादभिधावैचित्र्यमत्र ‘प्रकार'-शब्देनोच्यते । कीदृशम्-उचिताख्यानमुदाराभिधानं जीवितं परमार्थो यस्य तत्तथोक्तम् । एतदानुगुण्येनैव विभूषणविन्यासो विच्छित्तिमावहति । यथा
करतलकलिताक्षमालयोः समुदितसाध्वससन्नहस्तयोः । कृतरुचिरजटानिवेशयो
रपर इवेश्वरयो: समागमः ॥११५॥ यथा वा
उपगिरि पुरुहूतस्यैष सेनानिवेशस्तटमपरमितोऽद्रेस्त्वद्वलान्यावसन्तु । ध्रुवमिह करिणस्ते दुर्धरा: संनिकर्षे
सुरगजमदलेखासौरभं न क्षमन्ते ॥११६।। यथा च
हे नागराज बहुधास्य नितम्बभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः । सोढाविषयवृषवाहनयोगलीला
पर्यङ्कबन्धनविधेस्तव कोऽतिभार: ॥११७।। अत्र पूर्वत्रोदाहरणयोभूषणगुणेनैव तद्गुणपरिपोषः, इतरत्र च स्वभावौदार्याभिधानेन ।
ओचित्यस्यैव छायान्तरेण स्वरूपमुन्मीलयतियत्र वक्तुः प्रमातुर्वा वाच्यं शोभातिशायिना । आच्छाद्यते स्वभावेन तदप्यौचित्यमुच्यते ॥ ५४॥