SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ वक्रोक्तिजीवितम् [१.५२-५३ अत्रारोचकिनः केचिच्छायावैचित्र्यरञ्जके । विदग्धनेपथ्यविधौ भुजङ्गा इव सादराः ॥५२॥ एवं मध्यमं व्याख्याय तमेवोपसंहरति-अत्रेति । अत्रैतस्मिन् केचित् कतिपये सादरास्तदाश्रयेण काव्यानि कुर्वन्ति । यस्मात् अरोचकिनः कमनीयवस्तुव्यसनिनः । कीदृशे चास्मिन्–छायावैचित्र्यरञ्जके कान्तिविचित्रभावाह्लादके। कथम्--विदग्धनेपथ्यविधौ भुजङ्गा इव, अग्राम्याकल्पकल्पने नागरा यथा । सोऽपि छायाचित्र्यरञ्जक एव । अत्र गुणोदाहरणानि परिमितत्वात्प्रदर्शितानि, प्रतिपदं पुनश्छायावैचित्र्यं सहृदयः स्वयमेवानसर्तव्यम । अनसरणदिकप्रदर्शनं पुनः क्रियते । यथा--मातृगुप्तमायुराजमजीरप्रभृतीनां सौकुमार्यवैचित्र्यसंवलितपरिस्पन्दस्यन्दीनि काव्यानि संभवन्ति । तत्र मध्यममार्गसंवलितं स्वरूपं विचारणीयम् । एवं सहजसौकुमार्यसुभगानि कालिदाससर्व सेनादीनां काव्यानि दृश्यन्ते । तत्र सुकुमारमार्गस्वरूपं चर्चनीयम् । तथैव च विचित्रवक्रत्वविजृम्भितं हर्षचरिते प्राचुर्येण भट्टबाणस्य विभाव्यते, भवभूतिराजशेखरविरचितेषु बन्धसौन्दर्यसुभगेषु मुक्तकेषु परिदृश्यते । तस्मात् सहृदयः सर्वत्र सर्व मनुसतव्यम् । एवं मार्गत्रितयलक्षणं दिङ्मात्रमेव प्रदर्शितम् , न पुनः साकल्येन सत्कविकौशलप्रकाराणां केनचिदपि स्वरूपमभिधातुं पार्यते । मागेषु गुणाना समुदायधर्मता। यथा न केवलं शब्दादिधर्मत्वं तथा तल्लक्षणव्याख्यावसर एव प्रतिपादितम् । एवं प्रत्येक प्रतिनियतगणग्रामरमणीयं मार्गत्रितयं व्याख्याय साधारणगुणस्वरूपव्याख्यानार्थ माह आजसेन स्वभावस्य महत्त्वं येन पोष्यते । प्रकारेण तदौचित्यमुचिताख्यानजीवितम् ॥ ५३॥
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy