SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ १.५५-५६] प्रथमोन्मेष: इत्युपादेयवर्गेऽस्मिन् यदर्थं प्रतिभा कवेः । सम्यक् संरभते तस्य गुणः सौभाग्यमुच्यते ॥५५॥ ___ इत्येवं विधेऽस्मिन्नुपादेयवर्गे शब्दाद्युपेयसमहे यदर्थं यन्निमित्तं कवे: संबन्धिनी प्रतिभा शक्तिः सम्यक् सावधानतया संरभते व्यवस्यति तस्य वस्तुन: प्रस्तुतत्वात् काव्याभिधानस्य यो गुण: स सौभाग्यमित्युच्यते भण्यते ॥ __ तच्च न प्रतिभासंरम्भमात्रसाध्यम्, किन्तु तद्विहितसमस्तसामग्रीसंपाद्यमित्याह सर्वसंपत्परिस्पन्दसंपाद्यं सरसात्मनाम् । अलौकिकचमत्कारकारि काव्यकजीवितम् ॥५६॥ सर्वसंपत्परिस्पन्दसंपाद्यं सर्वस्योपादेयराशेर्या संपत्तिरनवद्यताकाष्ठा तस्या: परिस्पन्द: स्फुरितत्वं तेन संपाद्यं निष्पादनीयम् । अन्यच्च कीदृशम्-सरसात्मनामाचेतसामलौकिकचमत्कारकारि लोकोत्तरालादविधायि । किं बहुना, तच्च काव्यकजीवितं काव्यस्य पर: परमार्थ इत्यर्थः । यथा दोर्मूलावधिसूत्रितस्तनमुरः स्निह्यत्कटाक्षे दृशौ किंचित्ताण्डवपण्डिते स्मितसुधासिक्तोक्तिषु भूलते । चेत: कन्दलितं स्मरव्यतिकरावण्यमङ्गतं तन्वङ्गयास्तरुणिम्नि सर्पति शनैरन्यैव काचिद्द्युतिः ॥१२१॥ तन्व्या: प्रथमतरतारुण्येऽवतीर्णे, आकारस्य चेतसश्चेष्टायाश्च वैचित्र्यमत्र वर्णितम् । तत्र सूत्रितस्तनमुरो लावण्यमङ्गैर्वृतमित्याकारस्य, स्मरव्यतिकरैः कन्दलितमिति चेतसः, स्निह्यत्कटाक्षे दृशाविति किंचित्ताण्डवपण्डिते स्मितसुधासिक्तोक्तिष भ्रलते इति
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy