________________
वक्रोक्तिजीवितम्
[१.४९-५१ सकलकविकौशलसंपादितं सन्मनोहारि हृदयरञ्जक भवतीत्यर्थः । यथा
अधिकरतलतल्पं कल्पितस्वापलीलापरिमलननिमीलत्पाण्डिमा गण्डपाली । सुतन कथय कस्य व्यञ्जयत्यजसैव
स्मरनरपतिकेलीयौवराज्याभिषेकम् ।।१०९।। __एवं सुकुमारविहितानामेव गुणानां विचित्रे कश्चिनिमयः संपाद्यत इति बोद्धव्यम् ।
आभिजात्यप्रभृतयः पूर्व मार्गोंदिता गुणाः ।
अत्रातिशयमायान्ति जनिताहार्यसंपदः ।।११०॥ इत्यन्तरश्लोकः । एवं विचित्रमभिधाय मध्यममुपक्रमते--
वैचित्र्यं सौकुमार्य च यत्र संकीर्णतां गते । भ्राजेते सहजाहार्यशोभातिशयशालिनी ॥४९॥ माधुर्यादिगुणग्रामो वृत्तिमाश्रित्य मध्यमाम् । यत्र कामपि पुष्णाति बन्धच्छायातिरिक्तताम् ॥५०॥ मार्गोऽसौ मध्यमो नाम नानारुचिमनोहरः ।
स्पर्धया यत्र वर्तन्ते मार्गद्वितयसंपदः ॥५१॥ मार्गोऽसौ मध्यमो नाम मध्यमाभिधानोऽसौ पन्थाः। कीदृशः - नानारुचिमनोहरः । नानाविधा रुचयः प्रतिभासा येषां ते तथोक्तास्तेषां सुकुमारविचित्रमध्यमव्यसनिनां सर्वेषामेव मनोहरो हृदयहारी। यस्मिन् स्पर्धया मार्गद्वितयसंपदः सुकुमारविचित्रशोभाः साम्येन वर्तन्ते व्यवतिष्ठन्ते, न न्यनातिरिक्तत्वेन । यत्र वैचित्र्यं विचित्रत्वं सौकुमार्य सुकुमारत्वं संकीर्णतां गते तस्मिन् मिश्रतां प्राप्ते सती भ्राजेते शोभते । कीदृशे-सहजा