SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ १.४७-४८] प्रथमोन्मेषः अत्रालुप्तविसर्गान्तैः पदैः प्रोतैः परस्परम् । ह्रस्वैः संयोगपूर्वैश्च लावण्यमतिरिच्यते ॥४७।। अत्रास्मिन्नेवं विधः पदलावण्यमतिरिच्यते परिपोषं प्राप्नोति । कीदृशैः-परस्पर मन्योन्यं प्रोतैः संश्लेषं नीतः। अन्यच्च कीदृशैः -अलुप्तविसर्गान्तः, अलप्तविसर्गाः श्रयमाणविसर्जनीया अन्ता येषां तानि तथोक्तानि तैः । ह्रस्वश्च लघुभिः । संयोगेभ्यः पूर्वैः । अतिरिच्यते इति संबन्धः । तदिदमत्र तात्पर्यम्-पूर्वोक्तलक्षणं लावण्यं विद्यमानमर्नेनातिरिक्ततां नीयते । यथा श्वासोत्क्रम्पतरङ्गिणि स्तनतटे धौताञ्जनश्यामलाः कीर्यन्ते कणशः कृशाङ्गि किममी बाप्पाम्भसां बिन्दवः । किंचाकुञ्चितकण्ठरोधकुटिलाः कर्णामृतस्यन्दिनो हूंकाराः कलपञ्चमप्रणयिनस्त्रुटयन्ति निर्यान्ति च ॥१०६।। यथा वा __एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुर प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते । तत् पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना दीनं त्वामनुनाथते कुचयुगं पत्रांशुकर्मा पिधाः ॥१०७।। यथा वा हसानां निनदेषु इति ।।१०८।। एवं लावण्यमभिधायाभिजात्यमभिधीयतेयन्नातिकोमलच्छायं नातिकाठिन्यमुद्वहत् । आभिजात्यं मनोहारि तदत्र प्रौढिनिर्मितम् ।। ४८ ।। अत्रास्मिन् तदाभिजात्यं यन्नातिकोमलच्छायं नात्यन्तमसृणकान्ति नातिकाठिन्यमद्वहन्नातिकठोरतां धारयत् तत् प्रौढिनिर्मितं
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy