SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ५८ वक्रोक्तिजीवितम् [१.४५-४६ ___ एवं माधुर्यमभिधाय प्रसादमभिधत्ते असमस्तपदन्यासः प्रसिद्धः कविवर्त्मनि। . किंचिदोजः स्पृशन् प्रायः प्रसादोऽप्यत्र दृश्यते ॥ ४५ ॥ असमस्तानां समासरहितानां पदानां न्यासो निबन्ध: कविवर्त्मनि विपश्चिन्मार्गे य: प्रसिद्धः प्रख्यात: सोऽप्यस्मिन् विचित्राख्ये प्रसादाभिधानो गुण: किंचित् कियन्मात्रमोज: स्पृशन्नुत्तानतया व्यवस्थित: प्रायो दृश्यते प्राचुर्येण लक्ष्यते । बन्धसौन्दर्यनिबन्धनत्वात्। तथाविधस्यौजसः समासवती वृत्ति:-'ओजः'-शब्देन चिरन्तनरुच्यते । तदयमत्र परमार्थः-पूर्वस्मिन् प्रसादलक्षणे सत्योजःसंस्पर्शमात्रमिह विधीयते । यथा अपाङ्गगततारका: स्तिमितपक्ष्मपालीभृत: स्फुरत्सुभगकान्तय: स्मितसमुद्गतिद्योतिताः । विलासभरमन्थरास्तरलकल्पितकभ्रुवो जयन्ति रमणार्पिता: समदसुन्दरीदृष्टयः ॥१०४।। प्रसादमेव प्रकारान्तरेण प्रकटयति गमकानि निबध्यन्ते वाक्ये वाक्यान्तराण्यपि । पदानीवात्र कोऽप्येष प्रसादस्यापरः क्रमः ॥४६॥ अत्रास्मिन् विचित्रे यद्वाक्यं पदसमुदायस्तस्मिन् गमकानि समर्पकाण्यन्यानि वाक्यान्तराणि निबध्यन्ते निवेश्यन्ते । कथम्पदानीव पदवत्, परस्परान्वितानीत्यर्थः । एष कोऽप्यपूर्वः प्रसादस्यापर: क्रम: बन्धच्छायाप्रकारः । यथा ___ नामाप्यन्यतरोः इति ॥१०५।। | अथ प्रसादमभिधाय लावण्यं लक्षयति
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy