SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ १.४३] प्रथमोन्मेष: यथा वा विशति यदि नो कंचित्कालं किलाम्बुनिधि विधेः कृतिषु सकलास्वेको लोके प्रकाशकतां गतः। कथमितरथा धाम्नां धाता तमांसि निशाकरं स्फुरदिदमियत्ताराचक्र प्रकाशयति स्फुटम् ।। ९९।। अत्र जगद्गर्हितस्यापि मरो: कविप्रतिभोल्लिखितेन लोकोत्तरौदार्यधुराधिरोपणेन तादृक् स्वरूपान्तरमन्मीलितं यत्प्रतीयमानत्वेनोदारचरितस्य कस्यापि सत्स्वप्युचितपरिस्पन्दसुन्दरेषु पदार्थसहस्रप तदेव व्यपदेशपात्रतामहतीति तात्पर्यम् । अवयवार्थस्तु-दुःशमयेति 'तृड्' विशेषणेन प्रतीयमानस्य त्रैलोक्यराज्येनाध्यपरितोषः पर्यवस्यति । अध्वगर्वर्जनमित्यौदार्येऽपि तस्य समुचितसंविभागासंभवादर्थिभिर्लज्जमानैरपि स्वयमेवानभिसरणं प्रतीयते। संश्रितद्रुमलताशोप इति तदाश्रितानां तथाविधेऽपि सङ्कटे तदेकनिष्ठताप्रतिपत्तिः । तस्य च पूर्वोक्तस्वपरिकरपरिपो षाक्षमतया ताप: स्वात्मनि न भोगलवलौल्येनेति प्रतिपाद्यते । उत्तरार्धेन–तादृशे दुर्विलसिनेऽपि परोपकाराविषयत्वेन श्लाघास्पदत्वमुन्मीलितम् । अपरत्रापि विधिविहितसमचितसमयसंभवं सलिलनिधिनिमज्जनं निजोदयन्यक्कृतनिखिलस्वपरपक्षः प्रजापतिप्रणीतसकलपदार्थप्रकाशनवताभ्युपगमनिर्वहणाय विवस्वान् स्वयमेव समाचरतीत्यन्यथा कदाचिदपि शशाङ्कतमस्ताराप्रभृती नामभिव्यक्तिर्मनागपि न संभवतीति कविना नतनत्वेन यदुल्लिखितं तदतीव प्रतीयमानमहत्त्वव्यक्तिपरत्वेन चमत्कारकारितामापद्यते।। विचित्रमेव प्रकारान्तरेणोन्मीलयति-प्रतीयमानतेत्यादि । यत्र यस्मिन प्रतीयमानता गम्यमानता वाक्यार्थस्य मुख्यतया विवक्षिनम्य वस्तुनः कस्यचिदनाख्येयस्य निबध्यते । कया यक्या ---
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy