________________
वत्रोक्तिजीवितम्
[१.४३ कथम्-उक्तिवैचित्र्यमात्रेण, भणितिवैदग्ध्ये वेत्यर्थः । यथा
अण्णं लडहत्तणअं अण्ण च्चिअ कावि वत्तणच्छाआ। सामा सामण्णपआवइणो रेह च्चिअ ण होइ ।।९६ ।। अन्यद् लट भत्वमन्यैव च कापि वर्तनच्छाया।
श्यामा सामान्यप्रजापते रेखैव च न भवति ॥ इति छाया। यथा वा
उद्देशोऽयं सरसविटपि श्रेणिशोभातिशायी कुजोत्कर्षाङकुरितहरिणीविभ्रमो नर्मदाया: । कि चैतस्मिन् सुरतसुहृदस्तन्वि ते वान्ति वाता
येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥ ९७।। भणितिवैचित्र्यमात्रमेवात्र काव्यार्थः, न तु नूतनोल्लेखशालि वाच्यविजृम्भितम् । एतच्च भणितिवैचित्र्यं सहस्रप्रकारं संभवतीति स्वयमेवोत्प्रेक्षणीयम् ।
पुनर्विचित्रमेव प्रकारान्तरेण लक्षयति-यत्रान्यथेत्यादि । यत्र यस्मिन्नन्यथाभवदन्येन प्रकारेण सत् सर्वमेव पदार्थजातम् अन्यथैव प्रकारान्तरेणैव भाव्यते । कथम्-यथारुचि। स्वप्रतिभासानुरूपेणोत्पाद्यते । केन-प्रतिभोल्लेखमहत्त्वेन महाकवे:, प्रतिभासोन्मेया तिशयत्वेन सत्कवेः। यत्किल वर्ण्यमानस्य वस्तुनः प्रस्तावमुचितं किमपि सहृदयहृदयहारि रूपान्तरं निर्मिमीते कविः । यथा
नाप: स्वात्मनि संश्रितद्रुमलताशोषोऽध्वगर्वर्जनं । भव्यं दुःशमया तृषा तव मरो कोऽसावनर्थो न यः। एकोऽर्थस्तु महानयं जललवस्वाम्यस्मयोद्गर्जिन: संनह्यन्ति न यत्तवोपकृतये धाराधरा: प्राकृता: ।। ९८॥