________________
१.४३]
प्रथमोन्मेषः भूयिष्ठेष्वपि का भवत्सु गणनात्यर्थं किमुत्ताम्यते
तस्योदारभुजोष्मणोऽनवसिता नाराच संपत्तयः ॥ ९३।। अवाजेर्महोत्सवव्यतिकरत्वेन तथाविधं रूपणं विहित यत्रालंकार्यम् "आर्य: स्वशौर्येणं युष्मान् सर्वानेव मारयति" इत्यलंकारशोभातिशयान्तर्गतत्वेन भ्राजते । तथा च कश्चित् सामान्योऽपि क्वापि दवीयस्यपि देशे नासंविभक्तो युष्माकमवशिष्यते। तस्मात् समरमहोत्सवसविभागलम्पटतया प्रत्येक ययं संभ्रमं त्यजत । गणनया वयं भूयिष्ठा इत्यशक्यानुष्ठानतां यदि मन्यध्वे तदप्ययुक्तम् । यस्मादसंख्यसंविभागाशक्यता कदाचिदसंपत्त्या कार्पण्येन वा संभाव्यते। तदेतदुभयमपि नास्तीत्युक्तम् -तस्योदारभुजोष्मणोऽनवसिता नाराच संपत्तयः [इति । यथा च
कतमः प्रविजृम्भितविरहव्यथः शून्यता नीतो देश: ॥९४ ।। इति । यथा च ____ कानि च पुण्यभाजि भजन्त्यभिख्यामक्षराणि ।।९५ ।। इति । अत्र कस्मादागताः स्थ, किं चास्य नाम इत्यलंकार्यमप्रस्तुतप्रशंसालक्षणालंकारच्छायाच्छरितत्वेनैतदी यशोभान्तर्गतत्वेन सहृदयहृदयाहादकारितां प्रापितम्। एतच्च व्याजस्तुतिपर्यायोक्तप्रभृतीनां भूयसा विभाव्यते। ननु च रूपकादीनां स्वलक्षणावसर एव स्वरूप निर्णेप्यते तत् किं प्रयोजनमतेषामिहोदाहरणस्य ? सत्यमेतत, किन्त्वेतदेव विचित्रस्य वैचित्र्यं नाम यदलौकिक
छायानिगययोगित्वेन भषणोपनिबन्ध: कामपि वाक्यवऋतामुन्मीलयति ।
विचित्रमेव रूपान्तरेण लक्षणयति यदपीत्यादि। यदपि वस्तु वाच्यमनतनोल्लेखमनभिनवत्वेनोल्लिग्यित तदपि यत्र यस्मिन्नलं कामपि काष्ठां नीयने लोकोतरातिगयकोटि मधिरोप्यते ।