________________
वक्रोक्तिजीवितम्
[१.४३ नामाप्यन्यतरोनिमीलितमभत्तत्तावदुन्मीलितं प्रस्थाने स्खलत: स्ववर्त्मनि विधेरन्यद् गृहीतः करः। लोकश्चायमदृष्टदर्शनकृता दृग्वैशसादुद्धृतो
युक्तं काप्ठिक लनवान् यदसि तामाम्रालिमाकालिकीम् अत्रायमेव न्यायोऽनुसंधेयः । यथा च
॥९१॥ कि तारुण्यतरोरियं रसभरोद्भिन्ना नवा मञ्जरी लीलाप्रोच्छलितस्य कि लहरिका लावण्यवारांनिधेः । उद्गाढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिण:
किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिण: ।। ९२ ।। अत्र रूपकलक्षणो योऽयं काव्यालंकारः तस्य सन्देहोक्तिरियं छायान्तरातिशयोत्पादनायोपनिबद्धा चेतनचमत्कारकारिता मावहति । शिष्टं पूर्वोदाहरणद्वयोक्तमनुसतव्यम् ।
अन्यच्च कीदृक्-रत्नेत्यादि। युगलकम् । यत्र यस्मिन्नलंकारैभ्राजमानैर्निजात्मना स्वजीवितेन भासमानभूषायै परिकल्प्यते शोभायै भूष्यते। कथम्-यथा भूषणः, कङ्कणादिभिः। कीदृशैःरत्नरश्मिच्छटोत्सेकभासुरैः मणिमयखोल्लासभ्राजिष्णुभिः । किं कृत्वा-कान्ताशरीरमाच्छाद्य कामिनीवपुः स्वप्रभाप्रसरतिरोहितं विधाय । भूषायै कल्प्यते तद्वदेवालंकरणरुपमादिभिर्यत्र कल्प्यते । एतच्चंतेषां भूषायै कल्पनम् यदेतैः स्वशोभातिशयान्तःस्थं निजकान्तिकमनीयान्तर्गतमलंकार्यमलंकरणीयं प्रकाश्यते द्योत्यते । तदिदमत्र तात्पर्यम्-तदलंकारमहिमैव तथाविधोऽत्र भ्राजते तस्यात्यन्तोद्रिक्तवृत्तेः स्वशोभातिशयान्तर्गतमलंकार्य प्रकाश्यते । यथा
आर्यस्याजिमहोत्सवव्यतिकरे नासंविभक्तोऽत्र वः कश्चित् काप्यवशिष्यते त्यजत रे नक्तञ्चरा: संभ्रमम् ।