________________
१.४३]
प्रथमोन्मेषः
पदा न्तरत्वेन प्रयुक्तत्वात् तत्र च विचित्रकविशक्तिसमुल्लिखितवक्रशब्दार्थोपनिबन्धमाहात्म्यात् प्रतीयमानमप्यभिधेयतामिव प्रापितम् । प्रक्रम एव प्रतिभासमानत्वान्न चार्थान्तरप्रतीतिकारित्वेन पदानां श्लेषव्यपदेशः शक्यते कर्तुम्, वाच्यस्य समप्रधानभावनानवस्थानात् । अर्थान्तरप्रतीतिकारित्वं च पदानां प्रतीयमानार्थस्फुटताव भासनार्थमुपनिबध्यमानमतीव चमत्कारकारितां प्रतिपद्यते ।
तमेव विचित्र प्रकारान्तरेण लक्षयति-अलंकारस्येत्यादि । यत्र यस्मिन्मार्गे कवयो निबध्नन्ति विरचयन्ति, अलंकारस्य विभूषणस्यालंकरणान्तरं भूषणा न्तरम् असंतुष्टाः सन्तः । कथम्हारादेर्मणिबन्धवत । मुक्ताकलापप्रभृतेर्यथा पदकादिमणिबन्धं रत्नविशेषविन्यासं वैकटिकाः । यथा
हे हेलाजितबोधिसत्त्व वचसा कि विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावमुख्यलब्धायशो
भारप्रोद्वहने करोषि कृपया साहाय्यकं यन्म: ॥९०॥ अत्रात्यन्तगहणीयचरितं पदार्थान्तरं प्रतीयमानतया चेतसि निधाय तथाविधविलसितः सलिलनिधिर्वाच्यतयोपक्रान्तः । तदेतावदेवालंकृतेरप्रस्तुतप्रशंसाया: स्वरूपम् -- गर्हणीयप्रतीयनानपदार्थान्तरपयवसानमाप वाक्यं श्रुत्युप क्रसरमणीयतयोपनिबध्यमान तद्विदाह्लादकारितामायाति । तदेतद् ब्याजस्तुतिप्रतिरूपकप्रायमलंकरणान्तरमप्रस्तुतप्रशंसाया भूषणत्वेनोपात्तम् । न चात्र संकरालंकारव्यवहारो भवितुमर्हति, पृथगतिपरिस्फुटत्वेनावभासनात् । न चापि संसृष्टिसंभवः समप्रधान भावेनानवस्थितेः। न च द्वयोरपि वाच्यालंकारत्वम्, विभिन्नविषयत्वात् । यथा वा