________________
५०
वक्रोक्तिजीवितम्
विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायते । परिस्फुरति यस्यान्तः सा काप्यतिशयाभिधा ॥ ४२ ॥ सोऽतिदुःसंच येन विदग्धकवयो गताः । खड्गधारापथेनेव सुभटानां मनोरथाः ।। ४३ । स विचित्राभिधानः पन्थाः कीदृशः - अतिदुःसंचरः, यत्रातिदुःखेन संचरन्ते । किं बहुना, येन विदग्धकवयः केचिदेव व्युत्पन्नाः केवलं गताः प्रयाताः, तदाश्रयेण काव्यानि चक्रुरित्यर्थः । कथम् - खङ्गधारापथेनेव सुभटानां मनोरथाः । निस्त्रिंशधारामार्गेण यथा सुभटानां महावीराणां मनोरथाः संकल्पविशेषाः । तदयमत्राभिप्रायः – यदसिधारामागंगमने मनोरथाना मौचित्यानुसारेण यथारुचि प्रवर्तमानानां मनाङ्मात्रमपि म्लानता न संभाव्यते । साक्षात्समरसंमर्दन समाचरणे पुनः कदाचित् किमपि म्लानत्वमपि संभाव्येत । तदनेन मार्गस्य दुर्गमत्वं तत्प्रस्थितानां च विहरणप्रौढिः प्रतिपाद्यते । कीदृशः स मार्गः - यत्र यस्मिन् शब्दाभिधेययोरभिधानाभिधीयमानयोरन्तः स्वरूपानुप्रवेशिनी वक्रता भणितिविच्छित्तिः स्फुरतीव प्रस्पन्दमानेव विभाव्यते लक्ष्यते । कदाप्रतिभाप्रथमोद्भेदसमये । प्रतिभायाः कविशक्तेरचरमोल्लेखावसरे । तदयमत्र परमार्थः - यत् कविप्रयत्ननिरपेक्षयोरेव शब्दार्थयोः स्वाभाविकः कोऽपि वक्रताप्रकारः परिस्फुरन् परिदृश्यते ।
-
यथा
[१.४२-४३
कोऽयं भाति प्रकारस्तव पवन पदं लोकपादाहतीनां तेजस्विव्रातसेव्य नभसि नयसि यत्पांसुपूरं प्रतिष्ठाम् । यस्मिन्नत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां
केनोपायेन सह्यो वपुषि कलषतादोष एष त्वयैव ॥ ८९ ॥ अत्राप्रस्तुतप्रशंसा लक्षणोऽलंकारः प्राधान्येन वाक्यार्थः प्रतीयमान