________________
४९
१.३४-४१]
प्रथमोन्मेषः समीकर्तुं पार्यते । तस्य बन्धसौन्दर्यमेवाव्युत्पन्नपदपदार्थानामपि श्रवणमात्रेणव हृदयहारित्वस्पर्धया व्यपदिश्यते । प्रतीयमानं पुनः काव्यपरमार्थज्ञानामेवानुभवगोचरतां प्रतिपद्यते। यथा कामिनीनां किमपि सौभाग्यं तदुपभोगोचितानां नायकानामेव संवेद्यतामहति, लावण्यं पुनस्तासामेव सत्कविगिरामिव सौन्दर्य सकललोकगोचरतामायातीत्युक्तमेवेत्यलमतिप्रसङ्गेन । एवं सुकुमारस्य लक्षणमभिधाय विचित्रं प्रतिपादयति -
प्रतिभाप्रथमोद्भेदसमये यत्र वक्रता । शब्दाभिधेययोरन्तः स्फुरतीव विभाव्यते ॥३४॥ अलंकारस्य कवयो यत्रालंकरणान्तरम् । असंतुष्टा निबध्नन्ति हारादेर्मणिबन्धवत् ॥३५॥ रत्नरश्मिच्छटोत्सेकभासुरैर्भूषणैर्यथा । कान्ताशरीरमाच्छाद्य भूषायै परिकल्प्यते ॥३६॥ यत्र तद्वदलंकारैर्धाजमानैर्निजात्मना। स्वशोभातिशयान्तःस्थमलंकार्य प्रकाशते ॥३७॥ यदप्यनूतनोल्लेखं वस्तु यत्र तदप्यलम् । उक्तिवैचित्र्यमात्रेण काष्ठां कामपि नीयते ॥३८॥ यत्रान्यथाभवत् सर्वमन्यथैव यथारुचि । भाव्यते प्रतिभोल्लेखमहत्त्वेन महाकवेः ॥३९॥ प्रतीयमानता यत्र वाक्यार्थस्य निबध्यते । वाच्यवाचकवृत्तिभ्यां व्यतिरिक्तस्य कस्यचित् ॥ ४० ॥ स्वभावः सरसाकूतो भावानां यत्र बध्यते । केनापि कमनीयेन वैचित्र्येणोपबृंहितः ॥४१॥