________________
वक्रोक्तिजीवितम्
[१.४३ वाच्यवाचकवृत्तिभ्यां शब्दार्थशक्तिभ्याम् । व्यतिरिक्तस्य तदतिरिक्तवृत्तेरन्यस्य व्यङ्गयभतस्याभिव्यक्तिः क्रियते। वृत्ति'-गब्दोऽत्र शब्दार्थयोस्तत्प्रकाशनसामर्थ्यमभिवते । एष च 'प्रतीयमान - व्यवहारो वाक्यवक्रताव्याख्यावसरे सुतरां समुन्मील्यते । अनन्तरोक्तम दाहरणद्वयमत्र योजनीयम् । यथा वा
वक्त्रेन्दोर्न हरन्ति बाप्पपयसां धारा मनोज्ञां श्रिय निश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम् । तस्यास्त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी
छाया कापि कपोलयोरनुदिनं तन्व्याः परं पुष्यति ॥१००।। अत्र त्वद्विरहवधुर्यसंवरणकदर्थनामनुभवन्त्यास्तस्यास्तथाविधे महति गुरुसङ्कटे वर्तमानाया:-किं बहुना-बाप्पनिश्वासमोक्षावसरोऽपि न संभवतीति । केवल परिणतलवलीलावण्यसंवादसुभगा कापि कपोलयोः कान्तिरणक्यसंवरणा प्रतिदिनं परं परिपोषमासादयतीति वाच्यव्यतिरिक्तवृत्ति दूत्युक्तितात्पर्य प्रतीयते। उक्तप्रकारकान्तिमत्त्वकथनं च कान्तकौतुकोत्कलिकाकारणतां प्रतिपद्यते ।
विचित्रमेव रूपान्तरेण प्रतिपादयति-स्वभाव इत्यादि । यत्र यस्मिन् भावानां स्वभाव: स्वपरिस्पन्द:सरसाकतो रसनिर्भराभिप्राय: पदार्थानां निबध्यते निवेश्यते। कीदृश:-केनापि कमनीयेन वैचित्र्येणोपबृंहितः, लोकोत्तरेण हृदयहारिणा वैदग्ध्येनोत्तेजित: । 'भाव'-शब्देनात्र सर्वपदार्थोऽभिधीयते, न रत्यादिरेव। उदाहरणम्
क्रीडासु बालकुसुमायुधसंगताया यत्तत् स्मितं न खलु तत् स्मितमात्रमेव । आलोक्यते स्मितपटान्तरितं मृगाक्ष्यास्तस्याः परिस्फुरदिवापरमेव किंचित् ।।१०१।।