________________
१.२९] प्रथमोन्मेषः
४३ तथोक्तः । तदयमत्राभिप्राय: –पदार्थपरमार्थमहिमैव कविशक्तिसमुन्मीलितः, तथाविधस्तत्र विजृम्भते । येन विविधमपि व्युत्पत्तिविलसितं काव्यान्तरगतं तिरस्कारास्पदं संपद्यते । अत्रोदाहरणं रघुवंशे मृगयावर्णनपरं प्रकरणम्, यथा
तस्य स्तनप्रणयिभिर्मुहुरेणशाव
हिन्यमानहरिणीगमनं पुरस्तात् । आविर्बभूव कुशगर्भमुखं मृगाणां
यूथं तदग्रसरगर्वितकृष्णसारम् ॥७६ ।। इत्यादि । यथा च कुमारसम्भवे
द्वन्द्वानि भावं क्रियया विवछः ॥ ७७ ।। इति । अत: परं प्राणिधर्मवर्णनम् -
शृङ्गेण च स्पर्शनिमीलिताक्षी
मृगीमकण्डयत कृष्णसारः ।। ७८ ।। अन्यच्च कीदृश:-रसादिपरमार्थज्ञमनःसंवादसुन्दरः। रसा: शृङ्गारादयः। आदिग्रहणेन रत्यादयोऽपि गृह्यन्ते । तेषां परमार्थ: पर रहस्यं तज्ज़ानन्तीति तज्ज्ञास्तद्विदस्तेषां मनःसंवादो हृदयसंवेदनं स्वानुभवगोचरतया प्रतिभासः, तेन सुन्दरः सुकुमार सहृदयहृदयाह्लादकारी वाक्यस्योपनिबन्ध इत्यर्थः । अत्रोदाहरणानि रघौ रावणं निहत्य पुष्पकेणागच्छतो रामस्य सीतायास्तद्विरहविधुरहृदयेन मयास्मिन्नस्मिन् समुद्देशे किमप्येवंविधं वैगसमनुभूतमिति वर्णयत: सर्वाण्येव वाक्यानि । तथा
पूर्वानुभूतं स्मरता च रात्री कम्पोत्तरं भीरु तवोपगढम् । गुहाविसारीण्यतिवाहिनानि मया कथंचिद् घनगर्जितानि ।। ७१ ।।