________________
5
.
वक्रोक्तिजीवितम्
[१.२९ नवस्थानलक्षणो विरोधः, स्वभावभेदलक्षणं च विभिन्नत्वम् । उपमानयोः पुनरीाकलहलक्षणो विरोधः, कोपात् पृथगवस्थान लक्षणं विभिन्नत्वम् । 'अतिमात्रम्' 'अत्यर्थं ' चेति विशेषणद्वितयं पक्षद्वयेऽपि सातिशयताप्रतीतिकारित्वेनातितरां रमणीयम् । श्लेषच्छाया क्लेश संपाद्याप्ययत्नघटितत्वेनात्र मनोहारिणी।
पुनश्च कीदृश:-अम्लानप्रतिभोद्भिन्ननवशब्दार्थबन्धुरः । अम्लाना यासावदोषोपहता प्राक्तनाद्यतनसंस्कारपरिपाकप्रौढा प्रतिभा काचिदेव कविशक्तिः, तत उद्भिन्नौ नतनाङकुरन्यायेन स्वयमेव समुल्लसितौ, न पुन: कदर्थनाकृष्टौ नवौ प्रत्यग्रौ तद्विदाह्लादकारित्वसामर्थ्ययुक्तौ शब्दार्थावभिधानाभिधेयौ ताभ्यां बन्धुरो हृदयहारी । अन्यच्च कीदृशः- अयत्नविहितस्वल्पमनोहारिविभूषण: । अयत्नेनाक्लेशेन विहितं कृतं यत् स्वल्पं मनाङ्मात्रं मनोहारि हृदयाह्लादकं विभूषणमलंकरणं यत्र स तथोक्तः । 'स्वल्प'-गब्दोऽत्र प्रकरणाद्यपेक्षः, न वाक्यमात्रपरः। उदाहरणं यथा
बालेन्दुवक्राण्यविकासभावाद् बभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां
नखक्षतानीव वनस्थलीनाम् ॥७५ ।। अत्र ‘बालेन्दुवक्राणि' 'अतिलोहितानि' 'सद्यो वसन्तेन समागतानाम्' इति पदानि सौकुमार्यात् स्वभाववर्णनामात्रपरत्वेनोपात्तान्यपि 'नखक्षतानीव' इत्यलंकरणस्य मनोहारिण: क्लेशं विना स्वभावोद्भिन्नत्वेन योजनां भजमानानि चमत्कारकारिता मापद्यन्ते।
यश्चान्यच्च कीदृश:-भावस्वभावप्राधान्यन्यक्कृताहार्यकौशलः । भावा: पदार्थास्तेषां स्वभावस्तत्त्वं तस्य प्राधान्यं मुख्यभावस्तेन न्यक्कृतं तिरस्कृतमाहार्य व्युत्पत्तिविहितं कौशलं नैपुण्यं यत्र स