________________
१.२९]
प्रथमोन्मेषः सुकुमाराभिध: सोऽयम्, सोऽयं पूर्वोक्तलक्षणः सुकुमारशब्दाभिधान: । येन मार्गेण सत्कवयः कालिदासप्रभृतयो गता: प्रयाता:, तदाश्रयण काव्यानि कृतवन्तः । कथम्-उत्फुल्लकुसुमकाननेनेव षट्पदाः। उत्फुल्लानि विकसितानि कुसुमानि पुष्पाणि यस्मिन् कानने वने तेन षट्पदा इव भ्रमरा यथा। विकसितकुसुमकाननसाम्येन तस्य कुसुमसौकुमार्य सदृशमाभिजात्यं द्योत्यते। तेषां च भ्रमरसादृश्यन कुसुममकरन्दकल्पसारसंग्रहव्यसनिता । स च कीदृशः-यत्र यस्मिन् किंचनापि कियन्मात्रमपि वैचित्र्यं विचित्रभावो वक्रोक्तियुक्तत्वम् । तत्सर्वमलंकारादि प्रतिभोद्भवं कविशक्तिसमुल्लसितमेव, न पुनराहार्यं यथाकथंचित्प्रयत्नेन निष्पाद्यम् । कीदृशम्-सौकुमार्यपरिस्पन्दस्यन्दि । सौकुमार्यमाभिजात्यं तस्य परिस्पन्दस्तद्विदाह्लादकारित्वलक्षणं रामणीयकं तेन स्यन्दते रसमयं संपद्यते यत्तथोक्तम् । यत्र विराजते शोभातिशयं पुष्णातीति संबन्धः । यथा
प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी । उभौ विरोधक्रियया विभिन्नौ
जायापती सानुशयाविवास्ताम् ॥७४ ।। अत्र श्लेषच्छायाच्छुरितं कविशक्तिमात्रसमुल्लसितमलंकरणमनाहार्य कामपि कमनीयतां पुष्णाति । तथा च 'प्रवृद्धताप:' 'तन्वी' इति वाचकौ सुन्दरस्वभावमात्रसमर्पणपरत्वेन वर्तमानावर्थान्तरप्रतीत्यनुरोधपरत्वेन प्रवृत्ति न संमन्येते, कविव्यक्तकौशलसमुल्लसितस्य पुन: प्रकारान्तरस्य प्रतीतावानुगण्यमात्रेण तद्विदाह्लादकारितां प्रतिपद्यते। किं तत्प्रकारान्तरं नाम?–विरोधविभिन्नयो: शब्दयोरर्थान्तरप्रतीतिकारिणोरुपनिबन्धः। तथा चोपमेययो: सहा