________________
वक्रोक्तिजीवितम्
[१.२५-२९ जीविनोऽस्य रमणीयत्वमेव न्यायोपपन्नं पर्यवस्यति । तस्मादेतेषां प्रत्येकमस्खलितस्वपरिस्पन्दमहिम्ना तद्विदाह्लादकारित्वपरिसमाप्तेर्न कस्यचिन्यूनता।
ननु च शक्त्योरान्तरतम्यात् स्वाभाविकत्वं वक्तुं युज्यते, व्युत्पत्त्यभ्यासयो: पुनराहार्ययोः कथमेतद् घटते? नैष दोषः, यस्मादास्तां तावत् काव्यकरणम्, विषयान्तरेऽपि सर्वस्य कस्यचिदनादिवासनाभ्यासाधिवासितचेतसः स्वभावानुसारिणावेव व्युत्पत्त्यभ्यासौ प्रवर्तते। तौ च स्वभावाभिव्यञ्जनेनैव साफल्यं भजतः। स्वभावस्य तयोश्च परस्परमपकार्योपकारकभावेनावस्थानात् स्वभावस्तावदारभते, तौ च तत्परिपोषमातनुतः। तथा चाचेतनानामपि पदार्थानां स्वभाव: स्वभावसंवादिभावान्तरसंनिधानमाहात्म्यादभिव्यक्तिमासादयति, यथा चन्द्रकान्तमणयश्चन्द्रमसः किरणपरा मर्शवशेन स्पन्दमानसहजरसप्रसरा: संपद्यन्ते । तदेवं मार्गानुद्दिश्य तानेव क्रमेण लक्षयति
अम्लानप्रतिभोद्भिननवशब्दार्थसुन्दरः । अयत्नविहितस्वल्पमनोहारिविभूषणः ॥२५॥ भावस्वभावप्राधान्यन्यक्कृताहार्यकौशलः । रसादिपरमार्थज्ञमनःसंवादसुन्दरः ॥२६॥ अविभावितसंस्थानरामणीयकरञ्जकः । विधिवैदग्ध्यनिष्पन्ननिर्माणातिशयोपमः ॥२७॥ यत् किंचनापि वैचित्र्यं तत्सर्वं प्रतिभोद्भवम् । सौकुमार्यपरिस्पन्दस्थन्दि यत्र विराजते ॥२८॥ सुकुमाराभिधः सोऽयं येन सत्कवयो गताः । मार्गेणोत्फुल्लकुसुमकाननेनेव षट्पदाः ॥२९॥