________________
१.२४]
प्रथमोन्मेषः
दानवत् काव्यं करणीयता मर्हति । तदेवं निर्वचनसमाख्यामात्रकरणकारणत्वे देशविशेषाश्रयणस्य वयं न विवदामहे । मार्गद्वितयवादिनामप्येतान्येव दूषणानि । तदलमनेन निःसारवस्तुपरिमलनव्यसनेन ।
कविस्वभावभेदनिबन्धनत्वेन काव्यप्रस्थानभेद: समञ्जसतां गाहते। सुकुमारस्वभावस्य हि कवेस्तथाविधैव सहजा शक्तिः समुद्भवति, शक्तिशक्तिमतोरभेदात् । तया च तथाविधसौकुमार्यरमणीयां व्युत्पत्तिमाबध्नाति । ताभ्यां च सुकुमारवर्त्मनाभ्यासतत्परः क्रियते । तथैव तस्माद् विचित्र: स्वभावों यस्य कवेस्तद्विदाह्लादकारिकाव्यलक्षणप्रस्ता वात् सौकुमार्यव्यतिरेकिणा वैचित्र्येण रमणीय एव, तस्य काचिद्विचित्रव तदनुरूपा शक्तिः समुल्लसति । तया च तथाविधवैदग्ध्यबन्धुरां व्युत्पत्तिमाबध्नाति । ताभ्यां च वैचित्र्यवासनाधिवासितमानसो विचित्रवर्मनाभ्यासभाग् भवति । एवमेतदुभयकविनिबन्धनसंवलितस्वभावस्य कवेस्तदुचितैव शबलशोभातिशयशालिनी शक्तिः समुदेति । तया च तदुभयपरिस्पन्दसुन्दरं व्युत्पत्त्युपार्जनमाचरति । ततस्तच्छायाद्वितयपरिपोषपेशलाभ्यासपरवश: संपद्यते ।
तदेवमेते कवयः काव्य करणकलापकाष्ठाधिरूढिरमणीयं किमपि काव्यमारभन्ते, सुकुमारं विचित्रमुभयात्मकं च। त एव तत्प्रवर्तननिमित्तभता मार्गा इत्युच्यन्ते । यद्यपि कविस्वभावभेदनिबन्धनत्वादनन्तभेदभिन्नत्वमनिवार्य, तथापि परिसंख्यातुमशक्यत्वात् सामान्येन वैविध्यमेवोपपद्यते । तथा च रमणीयकाव्यपरिग्रहप्रस्तावे स्वभावसुकुमारस्तावदेको राशि:, तद्वयतिरिक्तस्यारमणीयस्यानपादेयत्वात् । तद्वयतिरेकी रामणीयकविशिष्टो विचित्र इत्युच्यते । तदेतयोर्द्वयोरपि रमणीयत्वादेतदीयच्छायाद्वितयोप