________________
३८
वक्रोक्तिजीवितम्
[१.२४ ___ तत्र तस्मिन् काव्ये मार्गाः पन्थानस्त्रयः सन्ति संभवन्ति । न द्वौ न चत्वारः. स्वरादिसंख्यावत्तावतामेव वस्तुतस्त रुपलम्भात् । ते च कीदृशाः-कविप्रस्थानहेतवः । कवीनां प्रस्थान वर्तनं तस्य हेतवः, काव्यकरणस्य कारणभूताः । किमभिधानाःसुकुमारो विचित्रश्च मध्यमश्चेति । कीदृशो मध्यमः-उभयात्मकः । उभयमनन्तरोक्तं मार्गद्वयमात्मा यस्येति विगृह्य छायाद्वयोपजीवीत्युक्तं भवति । तेषां च स्वलक्षणावसरे स्वरूपमाख्यास्यते । __ अत्र बहुविधा विप्रतिपत्तयः संभवन्ति । यस्माच्चिरन्तनविदर्भादिदेशविशेषसमाश्रयणेन वैदर्भीप्रभृतयो रीतयस्तिस्रः समाम्नाता:। तासां चोत्तमाधममध्यमत्वेन त्रैविध्यम् । अन्यैश्च वैदर्भगौडीयलक्षणं मार्गद्वितयमाख्यातम् । एतच्चोभयमध्ययक्तियुक्तम् । यस्माद्देशभेदनिबन्धनत्वे रीतिभेदानां देगानामानन्त्यादसंख्यत्वं प्रसज्यते। न च विशिष्टरीतियुक्तत्वेन काव्यकरणं मातुलेयभगिनीविवाहवद् देशधर्मतया व्यवस्थापयितुं शक्यम् । देशधर्मो हि वृद्धव्यवहारपरंपरामात्रशरण: शक्यानुष्ठानतां नातिवर्तते । तथाविधकाव्यकरणं पुन: शक्त्यादिकारणकलापसाकल्यमपेक्ष्यमाणं न शक्यते यथाकथंचिदनष्ठातुम् । न च दाक्षिणात्यगीतविषयसुस्वरत्वादि ध्वनिरामणीयकवत्तस्य स्वाभाविकं किंचिद् वक्तुं पार्यते । तस्मिन् सति तथाविधकाव्यकरणं सर्वस्य स्यात् । किंच शक्तौ विद्यमानायामपि व्युत्पत्त्यादिराहार्यकारणसम्पत्प्रतिनियतदेशविषयतया न व्यवतिष्ठते, नियमनिबन्धनाभावात् तत्रादर्शनाद अन्यत्र च दर्शनात । न च रीतीनामत्तममध्यमाधमत्व - भेदेन वैविध्यं व्यवस्थापयितुं न्याय्यम्। यस्मात सहृदयहृदया ह्लादकारिकाव्यलक्षणप्रस्तावे वैदर्भीसदृशसौन्दर्यासंभवान्मयमाधमयोरुपदेगवैयर्थ्यमायाति । परिहार्यन्वेनाप्युपदेशो न युक्ततामालम्बते. नरेवानभ्युपगतत्वात्। न बागतिकगतिन्यायेन यथाशक्ति दरिद्र