________________
३७
१.२३-२४]
प्रथमोन्मेषः वाच्यवाचकवक्रोक्तित्रितयातिशयोतरम् ।
तद्विदाह्लादकारित्वं किमप्यामोदसुन्दरम् ॥ २३ ॥ तद्विदाह्लादकारित्वं काव्यविदानन्दविधायित्वम् । कीदृशम्--- वाच्यवाचकवक्रोक्तित्रितयातिशयोत्तरम् । वाच्यमभिधेयं वाचक: यादो वक्रोक्तिरलंकरणम्, एतस्य त्रितयस्य योऽतिशयः कोऽप्युत्कर्षस्तस्मादुत्तरमतिरिक्तम् । स्वरूपेणातिशयेन च स्वरूपेणान्यत् किमपि तत्त्वान्तरमेतदतिशयेनैतस्मात्तितयादपि लोकोत्तरमित्यर्थः । अन्यच्च कीदृशम्-किमप्यामोदमुन्दरम्। किमप्यव्यपदेश्यं सहृदयहृदयसंवेद्यम् आमोदः सुकुमारवस्तुधर्मो रञ्जकत्वं नाम, तेन सुन्दरं रजकत्वरमणीयम् । यथा
हंसानां निनदेषु यः कवलितैरासज्यते कुजतामन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः । ते संप्रत्यकठोरवारणवधदन्ताङ्करस्पर्धिनो
निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ॥ ७३ ।। अत्र त्रितयेऽपि वाच्यवाचकवक्रोक्तिलक्षणे प्राधान्येन न कश्चिदपि कवेः संरम्भो विभाव्यते । किंतु प्रतिभावैचित्र्यवशेन किमपि तद्विदाह्लादकारित्वमुन्मीलितम् । यद्यपि सर्वेषामुदाहरणानामविकलकाव्यलक्षणपरिसमाप्तिः संभवति तथापि यत्प्राधान्येनाभिधीयते स एवांशः प्रत्येकमुद्रिक्ततया तेषां परिस्फुरतीति सहृदयः स्वयमेवोत्प्रेक्षणीयम् ।
एवं काव्यसामान्यलक्षणमभिधाय तद्विशेषलक्षणविषयप्रदर्शनार्थं मार्गभेदनिबन्धनं त्रैविध्यमभिधत्ते
सन्ति तत्र यो मार्गाः कविप्रस्थानहेतवः । सुकुमारो विचित्रश्च मध्यमश्चोभयात्मकः ॥२४॥