SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ वक्रोक्तिजीवितम् [१.२२ निमज्जन्निजो राजा तथाविधनयव्यवहारनिपुणेरमात्यस्तैस्तैरुपायरुत्तारणीय इत्युपदिष्टम् । एतच्च स्वलक्षणव्याख्यानावसरे व्यक्तिमाया स्यति । एवं कविव्यापारवक्रताषट्कमुद्देशमात्रेण व्याख्यातम्। विस्तरेण तु स्वलक्षणावसरे व्याख्यास्यते । क्रमप्राप्तत्वेन बन्धोऽधुना व्याख्यास्यते वाच्यवाचकसौभाग्यलावण्यपरिपोषकः । व्यापारशाली वाक्यस्य विन्यासो बन्ध उच्यते ॥२२॥ विन्यासो विशिष्टं न्यसनं यः सन्निवेश: स एव व्यापारशाली बन्ध उच्यते। व्यापारोऽत्र प्रस्तुतत्वात् काव्य क्रियालक्षणः। तेन शालते श्लाघते य: स तथोक्तः । कस्य-वाक्यस्य श्लोकादे: । कीदृशः-वाच्यवाचकसौभाग्यलावण्यपरिपोषकः। वाच्यवाचकयोयोरपि वाच्यस्याभिधेयस्य वाचकस्य च शब्दस्य वक्ष्यमाणं सौभाग्यलावण्यलक्षणं यद्गुणद्वयं तस्य परिपोषक: पुष्टतातिशयकारी। सौभाग्यं प्रतिभासंरम्भफल भतं चेतनचमत्कारित्वलक्षणम्, लावण्यं संनिवेशसौन्दर्यम्, तयोः परिपोषकः । यथा दत्त्वा वामकरं नितम्बफलके लीलावलन्मध्यया प्रोत्तुङ्गस्तनमंसचुम्बिचिबुकं कृत्वा तया मां प्रति । प्रान्तप्रोतनवेन्द्रनीलमणिमन्मुक्तावलीविभ्रमा: सासूयं प्रहिता: स्मरज्वरमुचो द्वित्रा: कटाक्षच्छटाः ॥७२।। अत्र समग्रकविकौशलसंपाद्यस्य चेतनचमत्कारित्वलक्षणस्य सौभाग्यस्य कियन्मात्रवर्णविन्यासविच्छित्तिविहितस्य पदसंधानसम्पदुपार्जितस्य च लावण्यस्य पर: परिपोषो विद्यते । एवं च स्वरूपमभिधाय तद्विदाह्लादकारित्वमभिधत्ते
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy