SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ १.२१] प्रथमोन्मेषः - सहजाहार्यसौकुमार्यमनोहरः । सहजं स्वाभाविकमाहार्य व्युत्पत्त्युपार्जितं यत्सौकुमार्यं रामणीयकं तेन मनोहरो हृदयहारी यः स तथोक्तः । तत्र प्रकरणे वक्रभावो यथा - रामायणे मारीचमायामयमाणिक्यमृगानुसारिणो रामस्य करुणाक्रन्दाकर्णनकातरान्तःकरणया जनकराजपुत्र्या तत्प्राणपरित्राणाय स्वजीवितपरिरक्षानिरपेक्षया लक्ष्मणो निर्भत्स्यं प्रेषितः । तदेतदत्यन्तमनौचित्ययुक्तम्, यस्मादनुचरसंनिधाने प्रधानस्य तथाविधव्यापारकरणमसंभावनीयम् । तस्य च सर्वातिशायिचरित युक्तत्वेन वर्ण्यमानस्य तेन कनीयसा प्राणपरित्राणसंभावनेत्येतदत्यन्तमसमीचीनमिति पर्यालोच्य उदात्तराघवे कविना वैदग्ध्यवशेन मारीचमृगमारणाय प्रयातस्य परित्राणार्थं लक्ष्मणस्य सीतया कातरत्वेन रामः प्रेरितः इत्युपनिबद्धम् । अत्र च तद्विदाह्लादक। रित्वमेव वक्रत्वम् । यथा वा किरातार्जुनीये किरातपुरुषोक्तिषु वाच्यत्वेन स्वबाणमार्गणमात्रमेवोपक्रान्तम्। वस्तुतः पुनरर्जुनेन सह तात्पर्यार्थ पर्यालोचनया विग्रहो वाक्यार्थतामुपनीतः । तथा च तत्रैवोच्यते प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् । तथाभियुक्तं च शिलीमुखार्थिना यथेतरन्न्याय्यमिवावभासते ।। ७१ ।। ----- ३५ प्रबन्धे वक्रभावो यथा - कुत्रचिन्महाकविविरचिते रामकथोपनिबन्धे नाटकादौ पञ्चविधवक्रतासामग्री समुदयसुन्दरं सहृदयहृदयहारि महापुरुष वर्णनमुपक्रमे प्रतिभासते । परमार्थतस्तु विधिनिषेधात्मकर्मोपदेशः पर्यवस्यति, रामवद्वर्तिव्यं न रावणवदिति । यथा च तापसवत्सराजे कुसुमसुकुमारचेतसः सरसविनोदंकरसिकस्य नायकस्य चरितवर्णनमुपक्रान्तम् । वस्तुतस्तु व्यसनार्णवे
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy