________________
वक्रोक्तिजीवितम्
[१.२१ -यदुपस्थितां सेवासमापन्नां लक्ष्मीमपास्य श्रियं परित्यज्य पूर्व यस्त्वं मया सार्धं प्रपन्नो विपिनं प्राप्तस्तस्य तव स्वप्नेऽप्येतन्न संभाव्यते । तया पुनस्तस्मादेव कोपात् स्त्रीस्वभावसमुचितसपत्नीविद्वेषात्त्वद्गृहे वसन्ती न सोढास्मि । तदिदमुक्तं भवतियत्तस्मिन् विधुरदशाविसंष्ठुलेऽपि समये तथाविधप्रसादास्पदता। मध्यारोप्य यदिदानी साम्राज्ये निष्कारणपरित्यागतिरस्कारपात्रता नीतास्मीत्येतदुचितमनुचितं वा विदितव्यवहारपरंपरेण भवतास्वयमेव विचार्यतामिति ।
स च वक्रभावस्तथाविधो यः सहस्रधा भिद्यते बहुप्रकारं भेदमासादयति । सहस्र-शब्दोऽत्र संख्याभयस्त्वमात्रवाची, न नियतार्थवृत्तिः, यथा-सहस्रमवध्यमिति । यस्मात् कविप्रतिभानामानन्त्यान्नियतत्व न संभवति । योऽसौ वाक्यस्य वक्रभावो बहुप्रकारः, न जानीमः कीदश इत्याह - यत्रालंकारवर्गोऽसौ मर्वोऽप्यन्तर्भविष्यति । यत्र यस्मिन्नसावलंकारवर्गः कविप्रवाहप्रसिद्धप्रतीतिरुपमादिरलंकरणकलापः सर्वः सकलोऽप्यन्तर्भविष्यति अन्तर्भावं गमिष्यति पृथक्त्वेन नावस्थाप्यते । तत्प्रकारभेदत्वेनैव व्यपदेशमासादयिष्यतीत्यर्थः । स चालंकारवर्गः स्वलक्षणावसरे प्रतिपदमुदाहरिष्यते ॥
एवं वाक्यवक्रतां व्याख्याय वाक्यसमहरूपस्य प्रकरणस्य तत्समुदायात्मकस्य च प्रबन्धस्य वक्रता व्याख्यायते
वक्रभावः प्रकरणे प्रबन्धेऽप्यस्ति यादृशः । उच्यते सहजाहार्यसौकुमार्यमनोहरः ॥२१॥ वक्रभावो विन्यासवैचित्र्यं प्रबन्धकदेशभूते प्रकरणे यादृशोऽस्ति यादृग् विद्यते प्रबन्धे वा नाटकादौ सोऽप्युच्यते कथ्यते । कीदृशः