SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ १.२०] प्रथमोन्मेषः अयं जनः प्रष्टमनास्तपोधने न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥ ६८।। अत्राहं प्रष्टकाम इति वक्तव्ये ताटस्थ्यप्रतीत्यर्थमयं जन इत्युक्तम् । यथा वा। सोऽय दम्भधृतव्रतः इति ।। ६९ ।। अत्र सोऽहमिति वक्तव्ये पूर्ववद् ‘अयम्' इति वैचित्र्यप्रतीतिः । एते च मुख्यतया वक्रताप्रकाराः कतिचिनिदर्शनार्थं प्रदर्शिताः । शिष्टाश्च सहस्रशः संभवन्तीति महाकविप्रवाहे सहृदयैः स्वयमेवोत्प्रेक्षणीयाः । एवं वाक्यावयवानां पदानां प्रत्येकं वर्णाद्यवयवद्वारेण यथासंभव वक्रभावं व्याख्यायेदानी पदसमहमतस्य वाक्यस्य वक्रता व्याख्यायते वाक्यस्य वक्रभावोऽन्यो भिद्यते यः सहस्रधा । यत्रालंकारवर्गोऽसौ सर्वोऽप्यन्तर्भविष्यति ॥२०॥ वाक्यस्य वक्रभावोऽन्यः । वाक्यस्य पदसमहभतस्य । आख्यातं साव्ययकारकविशेषणं वाक्यमिति यस्य प्रतीतिस्तस्य श्लोकादेर्वक्रभावो भगीभणितिवैचित्र्यम् अन्यः पूर्वोक्तवक्रताव्यतिरेकी समुदायवैचित्र्यनिबन्धनः कोऽपि संभवति । यथा उपस्थितां पूर्वमपास्य लक्ष्मी वनं मया सार्धमसि प्रपन्नः । त्वामाश्रयं प्राप्य तया नु कोपा त्सोढास्मि न त्वद्भवने वसन्ती ॥ ७० ॥ एतत्सीतया तथाविधकरुणाक्रान्तान्तःकरणया वल्लभं प्रति संदिश्यते 3
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy