________________
३२
वक्रोक्तिजीवितम्
[१.१९ रोपेण चेतनस्येव क्रियासमावेशलक्षणं रसादिपरिपोषणार्थं कर्तत्वादिकारकत्वं निबध्यते । यथा
स्तनद्वन्द्वं मन्दं स्नपयति बलाद्वाष्पनिवहो हठादन्तःकण्ठं लठति सरसः पञ्चमरवः । शरज्ज्योत्स्नापाण्डः पतति च कपोलः करतले
न जानीमस्तस्याःक इव हि विकारव्यतिकरः ॥ ६५ ॥ अत्र बाष्पनिवहादीनामचेतनानामपि चेतनत्वाध्यारोपेण कविना कर्तृत्वमुपनिबद्धम् – यत्तस्या विवशायाः सत्यास्तेषामेवंविधो व्यवहारः, सा पुनः स्वयं न किंचिदप्याचरितुं समर्थेत्यभिप्रायः । अन्यच्च कपोलादीनां तदवयवानामेतदवस्थत्वं प्रत्यक्षतयास्मदादिगोचरतामापद्यते, तस्याः पुनर्योऽसावन्तर्विकारव्यतिकरस्तं तदनुभवैकविषयत्वाद्वयं न जानीमः। यथा च
चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः बाणव्यस्तः सदनमुदधिभूरियं हन्तकारः । अस्त्येवैतत् किम कृतवता रेणुकाकण्ठबाधां
बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥६६ ।। अत्र चन्द्रहासो लज्जत इति पूर्ववत् कारकवैचित्र्यप्रतीतिः । पुरुषवैचित्र्यविहितं वक्रत्वं विद्यते-यत्र प्रत्यक्तापरभावविपर्यासं प्रयुञ्जते कवयः, काव्यवैचित्र्यार्थं युष्मद्यस्मदि वा प्रयोक्तव्ये प्रातिपदिकमात्रं निबध्नन्ति । यथा
__ अस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् ।।६७।। अत्र त्वं न जानासीति वक्तव्ये वैचित्र्याय देवो न जानातीत्य. क्तम् । एवं युष्मदादिविपर्यासः क्रियापदं विना प्रातिपदिकमात्रेऽपि दृश्यते । यथा