________________
प्रथमोन्मपः
१.१९]
लीलया लीलावतीभि: निरुद्ध
गिथिलित-चापः जयति मकरध्वजः ।। इति छाया । अत्र लोचनैर्लीलया लीलावतीभिनिरुद्धः स्वव्यापारपराङ्मुखीकृतः मन् शिथिलीकृतचापः कन्दर्पो जयति सर्वोत्कर्षेण वर्तत इति किमुच्यते, यतस्तास्तथाविधविजयावान्तौ सत्यां जयन्तीति वक्तव्यम् । तदयमत्राभिप्रायः- यदेतल्लो चनविलासानामेवंविधं जैत्रताप्रौढिभावं पर्यालोच्य चेतनत्वेन स स्वचापाधिरोप णायासमपसंहृतवान् । यतस्तेनैव त्रिभवनविजयावाप्तिः परिसमाप्यते । ममेति मन्यमानस्य तस्य सहायत्वोत्कर्षातिशयो जयतीति क्रियापदेन कर्तृतायाः कारणत्वेन कवेश्चेतसि परिस्फुरितः । तेन किमपि क्रियावैचित्र्यमत्र तद्विदाह्लादकारि प्रतीयते । यथा च
तान्यक्षराणि हृदये किमपि ध्वनन्ति ।। ६२ ।। अत्र जल्पन्ति वदन्तीत्यादि न प्रयुक्तम्, यस्मात्तानि कयापि विच्छित्त्या किमप्यनाख्येयं समर्पयन्तीति कवेरभिप्रेतम् ।
वक्रतायाः परोऽप्यस्ति प्रकारः प्रत्ययाश्रयः इति । वक्रभावस्यान्योऽपि प्रभेदो विद्यते । कीदृशः-प्रत्ययाश्रयः । प्रत्ययः सुप्तिङ् च यस्याश्रयः स्थानं स तथोक्तः। तस्यापि बहवः प्रकाराः संभवन्ति - संख्यावैचित्र्यविहितः, कारकवैचित्र्यविहितः, पुरुषवैचित्र्यविहितश्च । तत्र संख्यावैचित्र्यविहितः- यस्मिन् वचनवैचित्र्यं काव्यशोभोपनिबन्धनाय निबध्नन्ति । यथा वा
____ मैथिली तस्य दाराः ।। इति ।। ६३ ।। यथा वा
फुल्लेन्दीवरकाननानि नयने पाणी सरोजाकराः ॥ ६४॥ अत्र द्विवचनबहुवचनयोः सामानाधिकरण्यमतीव चमत्कारकारि । कारकवैचित्र्यविहितः- यत्राचेतनस्यापि पदार्थस्य चेतनत्वाध्या