________________
३०
वक्रोक्तिजीवितम्
[१.१९
विद्यते यत्र क्रियावैचित्र्यप्रतिपादनपरत्वेन वैदग्ध्यभङ्गी भणितिरमणीयान् प्रयोगान् निबध्नन्ति कवयः । तत्र क्रियावैचित्र्यं बहुविधं विच्छित्तिविततव्यवहारं दृश्यते । यथा
रइकेलिहिअणिअंसणकर किसलअरुद्धणअणजुअलस्य । रुद्दस्स तइअणअणं पव्वइपरिचुम्बिअं जअइ ॥ ५८ ॥ रतिके लिहत निवसनकरकिसलयरुद्ध नयनयगलस्य । रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ॥ इति छाया ॥ अत्र समानेऽपि हि स्थगनप्रयोजने साध्ये सामान्ये च लोचनत्वे, देव्याः परिचुम्बनेन यस्य निरोधः संपाद्यते तद्भगवतस्तृतीयनयनं जयति सर्वोत्कर्षेण वर्तत इति वाक्यार्थः । अत्र जयतीति क्रियापदस्य किमपि सहृदयहृदयसंवेद्यं वैचित्र्यं परिस्फुरदेव लक्ष्यते । यथा च
स्वेच्छाकेसरिणः स्वच्छस्वच्छायायासितेन्दवः ।
त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः ।। ५९॥ अत्र नखानां सकललोकप्रसिद्धच्छेदन व्यापारव्यतिरेकि किमध्यपूर्वमेव प्रपन्नातिच्छेदनलक्षणं क्रियावैचित्र्यमुपनिबद्धम् । यथा च स दहतु दुरितं शाम्भवो वः शराग्निः ॥ ६० ॥ अत्र च पूर्ववदेव क्रियावैचित्र्यप्रतीतिः । यथा च कण्णुप्पल-दलमिलिय- लोयणहि हेला-लोलणमाविअ - णयर्णाहि । लीलइ लीलावहि णिरद्धउ
सिहिलिय-चाउ जअइ मअरुद्ध उ ।। ६१ ।। कर्णोसल-दल-मिलित-लोचनाभिः
हेला - लोल - नामित - नयनाभिः ।